________________
पाखवा. समयः ॥४१६॥
area
Plele
बुद्धावर्णेऽपिच-बुद्धाश्लाघायामपि च, अदोषः-दोषाप्रसङ्गः नामांति परस्य, युद्धावर्णस्य बुद्धविशेष्यकापकृष्टत्वप्रकारकज्ञान- समीक्षा जनकत्वाभावात् , तथा, संस्तवेऽपि-युद्धस्तुतिकरणेऽपि, अगुणः-गुणाभावप्रसङ्गः, बुद्धसंस्तववर्णस्य बुद्धविशेष्यकोत्कृष्टत्वप्रका-स्तबकः। रकज्ञानजनकत्वाभावात् । तथा, आहानाप्रतिपत्त्यादि- आह्वाने कृतेऽप्यप्रतिपत्त्य ऽभवृत्त्यादि, शब्दार्थायोगतः-शब्दार्थासंबन्धा- AC॥११॥ भाव इप्यमाणे, ध्रुवम्- आवश्यकम् । 'बुद्ध्याकारे बहिराध्यासात् सर्वमिदं नोपपन्नम्' इति स्वीशविशेषदर्शिनः परस्य कथं समाधानं शोभते । अथानुमानिक चैत्यज्ञाने सत्यपि पित्तदोषेण शङ्ख पीतिमाध्यासव विशेषदर्शिनोऽप्यदिशो लोकवासनादोषाद् न प्रकृताध्यासानुपपत्तिरिति चेत् । न, अधिष्ठान-तज्ज्ञानाभावेऽध्यासानुपपत्तेः, असाक्षात्कारिभ्रमस्य विशेषदर्शनमात्रनिवर्त्यत्वनियमाच; अन्यथा क्षणिकत्वानुमानात् परस्याक्षणिकत्वसमारोपस्याप्यनिवृत्त्यापत्तेः । यदि च बहिराध्यवसायिशाब्दविकल्पप्रतिबन्धकविशेषदशेने लोकवासनाया उत्तेजकत्वं स्वीक्रियते, अत एव लोकवासनाविरहिणां विशेषदर्शिनां योगिनां न पूर्वक्षणबलायातोऽपीशविकल्प इतीप्यते, तदा लाघवादस्य बहिर्विषयेऽभ्रान्तत्वमेव कल्प्यताम , किं तत्र भ्रान्तत्वस्य, वासनाविशेषे तत्पतिबन्धकोत्तेजकत्वादेश्च कल्पनया ? इत्यादि मूक्ष्मधिया विभावनीयम् ॥ २९॥
तदेवं सिद्धः शब्दा-र्थयोः संबन्धः, तत्सिद्धौ च निराबाधा सर्वज्ञेनाभिव्यक्तादागमाद् धर्मा-धर्मव्यवस्था, ततश्च 'ज्ञान-क्रियाभ्यां मुक्तिः' इत्यत्र नयमतभेदजनितं वार्तान्तरमुत्थापयतिज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन। अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः॥३०॥ ॥१६॥
in Education in
For Private Personel Use Only
www.jainelibrary.org