________________
दोष इति चेत् । न, विकल्प स्खलक्षणयोः प्रतिबन्धस्यैवासिद्धेः, स्खलक्षणमालम्बनं किनाऽप्यसलविकल्पात सलविकल्पेऽस्याकारनियमोपपत्तेः सामर्थ्य जविकल्पस्यापि स्वलक्षणास्पर्शित्वात् , समारोपव्यवच्छेदस्य च शाब्दविकल्पादेवोपपत्तेस्तकल्पनायां मानाभावात् । अस्त्वेवमेव शास्त्राचैयर्थमिति चेत् । न, तथा सात स्वलक्षणास्पर्शिनो व्याप्त्यायनपेक्षस्यार्थमापकस्य शाब्दस्य मानान्तरत्वप्रसङ्गात् , अर्थविवक्षानुमितिरूपत्वे च तस्य स्वातन्त्र्येण बाह्यानध्यवसायित्वेनाप्रवर्तकत्वापातात , 'नानुमिनोमि किन्तु शाब्दयामि' इत्यनुभवानुपपत्तेश्च । अपि च, अन्यविवक्षायामन्यशब्ददर्शनाद् विवक्षाविशेषमूचकत्वमपि कथं शब्दानाम् ? । 'सुविवेचितं कार्य कारणं न व्यभिचरति' इति न्यायात् शब्दविशेषाणां तद् न विरुध्यत इति चेत् । तर्हि येनैव प्रतिवन्धेन शब्दविशेषो विवक्षाविशेषमूचकस्तत एवार्थविशेषातिपादकः किं नाभ्युपगम्यते ? । विवक्षया सह तदुत्पत्तिरेव प्रतिबन्धोऽर्थेन सह पुनरियमसंभविनीति चेत् । न, तथापि विवक्षाया वचनेऽर्थप्रतिपादनरूपेष्टसाधनताज्ञानं विनाऽसंभवाद् विवक्षोपसर्जनतयाऽर्थप्रतिपादकत्वस्य च शुकादिवचने व्यभिचारात्, कल्पितार्थप्रतिपादकत्वे च सत्या-ऽसत्यविभागाभावाल्लोकयासोच्छेदात , शब्दजनितार्थप्रतिविम्बे बहिरर्थविषयतायास्ताविकत्वकल्पनाया एचौचित्यादिति दिग ।। २८ ॥
____ दोषान्तरमभिधातुमाहबुद्धावर्णेऽपि चादोषः सस्तवेऽप्यगुणस्तथा। आहानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥
प्रतिबन्धेन शब्दविशेषो विवक्षावित । न, तथापि विवक्षाया वचनाचतार्थप्रतिपादकत्वे च
ज्योऽर्थन सड़ पुनरियप्रतिपादकत्वस्य च वाचावहिग्यविषयतायास्त चित्र
lain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org