________________
SION
व्यवस्था' इतिः तन्न, तटादिवदन्यत्राप्येवमविशेषेण त्रिलिङ्गतापत्तेः, स्थित्यादिषु खरविवाणादिषु च तदभावेऽपि 'स्थितिः, स्थानम् , स्वभावः, अस्वभावः, निरुपाख्यम् , तुच्छता' इत्यादिशब्दलित्रयप्रतिपत्तिदर्शनाच । 'स्त्रीवादयो गौवादय इव सामान्यविशेषाः' इत्यन्यः; तदपि न, तेष्वेव सामान्यविशेषेष्वन्तरेणाप्यपरं सामान्यविशेष 'जातिः, भावः, सामान्यम्' इत्यादेः स्त्री पुं-नपुंसकलिङ्गस्य प्रवृत्तिदर्शनात् । यदि तु सामान्यस्याप्यस्यापरराणि सामान्यानीष्यन्ते, वैयाकरणैः प्रत्ययामिधानान्वयव्यापारकार्योन्नीयमानरूपा हि जातयः; न हि तासां शास्त्रान्तरपरिदृष्टा नियमव्यवस्थेति; तदुक्तम्
"अर्थजात्यभिधानेऽपि सर्वे जातिविधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवास्थिताः॥१॥” इति । तथाप्यवस्तुनि लिङ्गप्रतीत्यनुरोधाद् व्याकरणनियन्त्रितपरिभाषाविशेषपतिसंधानमहिम्नाऽर्थप्रतिबिम्बपतिबन्धसांतलिगोत्पत्तिरेव वक्तुं युक्ता । न चैवं विरुद्धालङ्गयुताद् घटादिपदा नियतलिङ्गोत्पत्तिर्मा भून , घटायर्थप्रतिबिम्बोत्यत्तिस्तु स्पादिति वाच्यम् , रूपादिसामग्रीविरहे घटानुत्पत्तिवद् नियतलिङ्गसामग्रीविरहे नियतार्थप्रतिविम्वानुत्पत्तेः । संख्याया अपि वास्तवत्वे 'आपः, दाराः, सिकताः, वर्षाः' इत्यादावसत्यपि वस्तुनो भेदे बहुत्वसंख्या प्रवर्तमाना न घटेत; नापि 'वनम् , त्रिभुवनम् , जगत्, षण्णगरी' इत्यादिष्वसत्यप्यभेद एकत्वसंख्या व्यपदिश्यत। अथैकदारव्यक्तावप्यवयवगतबहुत्वमादाय बहुत्वव्यपदेशः, वनशब्देऽपि धवादिव्यक्तिगतजात्यैक्यमादायकत्वव्यपदेशः; भाक्तं वा तत्रैकत्वमिति चेत् । न, एक-बहुवधू-वृक्षाद्यर्थे वधूम्रक्षादिपदेऽपि बहुत्वै-कत्वमसक्तेः; विवक्षाऽभावात् तत्र तदप्रसक्तौ च विवक्षाया बहुत्वादिप्रतीत्युत्पादकत्वापेक्षया सांकृतबहुत्वाद्युत्पादकत्वकल्पनाया एवौचित्यात् । अन्यथा घट-बनादिष्वेकाकारैकत्वात्ययानुपपत्तेः । क्रिया-कालयोरपि वस्तुत्वे 'सत्तास्ति, विद्यमा
Jain Education in
a
For Private & Personel Use Only
O
www.jainelibrary.org