SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अतिप्रसङ्गमेव स्पष्टयति पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः । भवेदुत्पत्तिरेवं च तत्त्वसंख्या न युज्यते ॥४७॥ यदि त्रासदपि तत्रोत्पद्यते, तदाऽसत्त्वाविशेषतः पञ्चमस्याऽपि भूतस्योत्पत्तिर्भवेत् । न चेष्टाऽऽपत्तिरित्याह- एवं च पञ्चमभूतोत्पत्यभ्युपगमे च तत्त्वसंख्या " चत्वार्येव तत्त्वानि" इतिविभागवचनोक्ता, न युज्यते । एवं च देशनियमार्थमुक्तनियमाऽकल्पनेऽप्यसदनुत्पत्तिनिर्वाहाय तेन्नियमकल्पनमावश्यकमिति भावः । कारणाभावादेव पञ्चमभूतानुत्पत्तिः, न त्वसत्त्वादिति चेत् । सोऽपि कुतः । असत्त्वादिति चेत् । तदपि कुतः ?। कारणाभावादिति चेत् । अन्योन्याश्रयः । अस्तीतिधीविषयत्वाभावात् इति चेत् । न, प्रध्वंसादौ व्यभिचारात् । विधि-निषेधव्यवहाराविषयत्वात् इति चेत् । न, 'पञ्चमं भूतं नास्ति' इतिनिषेधव्यवहारस्य जागरूकत्वात् । भूते पञ्चमत्वं नास्तीति चेत् । न, विकल्पविषयस्याऽखण्डस्यैव पञ्चमभूतस्य प्रतियोगित्वोल्लेखाभ्युपगमात्, अन्यथा 'इह पञ्चमं भूतं नास्ति' इत्यस्यानुपपत्तेः, तदभ्युपगमविरोधाच्च । नन्वेवं सत्कार्यवादसाम्राज्यापत्तिः तथाच कार्यात् प्रागपि तदुपलब्धिप्रसङ्गः । अनाविर्भावाद् न तत्प्रसङ्ग इति चेत् । न, अनाविर्भावस्य निर्वक्तुमशक्यत्वात्, उपलम्भाभावरूपत्वे तस्याऽऽत्माश्रयात्, व्यञ्जकाद्यभावरूपत्वे च व्यञ्जकादीनां प्राक्सत्त्वे तदभावाऽयोगात्, असच्चे च तदनुत्पत्तेः। किंच, १ भूतसंघाते । २ भूतसंघातजन्यत्वमसंहृततत्प्रत्येकास्तित्वव्याप्यमित्येवंरूपस्य नियमस्य कल्पनम् । ३ कारणाभावः । ४ असत्त्वम् । ५ असत्त्वमिति वाक्यशेषः । ६ प्रध्वंसस्य 'प्रध्वंसोऽस्ति' इत्यस्तिधीविषयत्वसत्वेऽपि सत्वाभावात् । ७ सरवोपलम्भप्रसक्तिः । ८ ख ग घ च 'त्वेन त ं । ९ व्यञ्जकाद्यभावायोगात् सदसत्त्वयोर्विरोधात् । १० व्यञ्जकाद्यनुत्पत्तेः, नाऽसत् सद् भवतीति सिद्धान्ताश्रयणात् । Jain Educationational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy