________________
शास्त्रवार्ता
॥ २३ ॥
उक्तनियमे व्यभिचारमाशङ्कते -
असत्स्थूलत्वमण्वादौ घटादौ दृश्यते यथा । तथाऽसत्येव भूतेषु चेतनाऽपीति चेन्मतिः ॥
असदविद्यमानं, स्थूलत्वं महत्त्वम्, अण्वादौ परमाण्वादौ, आदिना द्व्यणुकग्रहः घटादौ- घटस्य परम्परया कारणीभूते त्र्यणुके, यथा दृश्यते चाक्षुपविषयीक्रियते; तथा भूतेष्वसंहतभूतेषु, असत्येवाऽविद्यमानैव, चेतनाऽपि भवति, सामन्येव हि कार्योत्पत्तिव्याप्या, न तु तत्र तदुत्पत्तौ तंत्र दस्तित्वमपि तन्त्रम्, "देशनियमस्यापि प्राग्भावेन, विशिष्टपरिणामेन वाऽन्यथासिद्धेः, इति चेद् मतिः परिकल्पना, तैव ॥ ४५ ॥
तत्रोच्यते
नाऽसत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः ॥
अण्वादौ परमाणु-द्वयणुकयोः, स्थूलत्वं महत्वम्, असदविद्यमानं, न । कुतः १, इत्याह- तेभ्य एव त्र्यणुककारणत्वेन प्रसिद्धेभ्य एवाऽणुभ्यः, तदुद्भवात् स्थूलत्वोत्पादात् । विपक्षे बाधकमाह असतोऽणुष्व विद्यमानस्य स्थूलत्वस्य तत्समुत्पाद:तेभ्योऽणुभ्य उद्भवः, अतिप्रसङ्गतो न युक्तः ॥ ४६ ॥
१ संहतावस्थापन्नेषु भूतेषु । २ चेतनोत्पत्तौ । ३ असंहते भूते । ४ चेतनास्तित्वम् । ५ तत्संघातजन्यत्वं तन्नास्तित्वव्याप्यामिति नियमस्य । ६ चार्वाकस्य ।
Jain Education International
For Private & Personal Use Only
सटीकः
॥ २३ ॥
ww.jainelibrary.org.