SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ de todo o c olor o थचिदित्यर्थः । तथात्वे हि 'कठिनोऽहं, जडोऽहम्' इत्यादिप्रतीत्यापत्तिः। अथ जायत एव 'स्थूलोऽहं, गौरोऽहं' इतिवत् 'कठिनोऽहम्' इत्यपि प्रतीतिः, प्रतीयत एव च जाड्यमपि, 'मामहं न जानामि' इत्यादिना, इति किमापादितम् ?, इति चेत् ।। | न, 'कठिनोऽहम्' इत्यादिप्रतीतेभ्रमत्वात् , इदंत्वसामानाधिकरण्येनाऽनुभूयमानस्य काठिन्यादेरहत्वसामानाधिकरण्यायोगाच्च, इत्युपरिष्टाद् विवेचयिष्यते । 'मामहं न जानामि' इति प्रतीतिश्च विशेषज्ञानाभावाविषया, न तु ज्ञानसामान्याभावविषया, भावरूपाज्ञानविषया वा, ज्ञाना-ऽज्ञानयोर्विरोधात् , भावरूपाज्ञानस्याऽन्यत्र निरस्तत्वाच्चेति दिग ॥४३॥ भूतकार्यत्वे, उत्पत्तेः प्राक् सत्चा-सत्त्वपक्षयोर्दोषमाहप्रत्येकमसती तेषु न च स्याद् रेणुतैलवत्। सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा ॥४४॥ प्रत्येकमसंहतावस्थायां, तेषु भूतेषु, असती-अविद्यमाना चेतना, नच-नैव स्यात् । किंवत् १, इत्याह- रेणुतैलवद् रेणौ तैलवदित्यर्थः । यथा तिलेषु पाग विद्यमानमेव तिलसंघातात् तैलमुत्पद्यते, रेणुषु तु मागविद्यमानं तत्संघातादपि नोत्पद्यते; | तथा भूतेषु प्रागविद्यमाना चेतना तत्संघातादपि नोत्पद्येत, तत्संघातजन्यत्वस्य तत्राऽस्तित्वव्याप्यत्वादिति भावः। चेद् यदि, भिन्नरूपेषु- असंहतेषु भूतेषु, सती विद्यमाना चेतना; तदा सर्वदोपलभ्येत, तदुपलम्भप्रतिबन्धकनिराकरणात् , आपादकसाम्राज्यादिति भावः ॥४४॥ १ चेतनाया भूतोपादेयत्वे । २ एतस्य हेतुदयस्य यथाक्रम ज्ञानसामान्याभाव-भावरूपाज्ञानप्रतिषेधसाधकत्वम् । ३ चेतनाया इति वाक्यशेषः । Jan Education For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy