________________
शास्त्रवार्ता -
॥ २२ ॥
कल्पने गौरवात्, वह्नि-घटोभयानुमितिजनकपरामर्शस्थले व्यभिचारात्, तत्तत्परामर्शाभाव विशिष्टतत्तत्परामर्शत्वेन प्रतिबन्धकत्वे च सुतरां तथात्वात्, सामान्यतो मानसत्वेनैव तेव तत्प्रतिबद्ध्यत्वावच्छेदकत्वौचित्यात् । न चैवमनुमितिसामग्य्यां सत्यां भोगोऽपि कथं भवेत् ?, इति वाच्यम्, भोगान्यज्ञानप्रतिबन्धकतावच्छेदकतया समानीतजातिविशेषवतां सुख-दुःखानामुत्तेजकत्वादिति । अधिकं मत्कृतन्यायालोक-स्याद्वादरहस्ययोरवसेयम् ॥ उक्तः शक्तिपक्षः ।। ४२ ।।
अथ कार्यक्षमधिकृत्याह -
काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् ? ॥
काठिन्यं कठिनः स्पर्शः पृथिवीमात्रवृत्तिः, इदमुपलक्षणं रसादीनाम्, अबोधोऽचैतन्यं तद्रूपाणि तद्धर्मनिरूपितधर्मिताश्रयाणि भूतानि पृथिव्यादीनि । कुतः १, इत्याह- अध्यक्षसिद्धित: 'कठिना पृथिवी, अचेतना पृथिवी' इत्यादिसत्यप्रत्यक्षविषयत्वात् । चैतन्यस्याश्चाक्षुषत्वात् तदभावो यद्यपि न चाक्षुषः, तथाप्युपनयजन्यं मानसं तदध्यक्षं ग्राह्यम् । चेतना तु तद्रूपा न - काठिन्या-बोधसामानाधिकरण्येन प्रमीयमाणा न, अतः सा चेतना, तत्फलं भूतोपादेया, कथं भवेत् १ - न क१ अनन्तप्रतिबध्य-प्रतिबन्धककल्पनया गौरवात् । २ चार्वाकस्य । ३ परामर्शनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेकत्वाङ्गीकारस्योचितत्वात् । ४ तदा चैतन्यमनुकृष्यते । ५ चेष्टाजम्यम् । ६ चैतन्य भावविषयकं प्रत्यक्षम् ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
॥ २२ ॥
www.jainelibrary.org