________________
चतुरम् इति, तत्किं विस्मृतम् । कथं च सविकल्पकव्यवहितस्य निर्विकल्पस्य प्रहृत्युपयोगित्वम् १, इति सूक्ष्ममीक्ष्यताम् । अथ विशिष्टज्ञानस्यापि धर्म्यशे, स्वप्रकाशत्वांशे च प्रामाण्यमेव, अतो धर्म्यशेमामाण्यज्ञानाभावात् तदंशे ततः प्रवृत्युपपत्तिः, शुक्त्यादाविदं रजतमित्यादिज्ञानानां च विशिष्टवासनोपनीतरजताद्यलीकधर्म्यवगाहित्वाद् व्यवहारवाधः "सर्व ज्ञानं धर्मिण्यभ्रान्तम्" इति प्रवादश्चानुपपन्न इति चेत् । न, विशिष्टवासनासामर्थ्याऽविशेषे विशिष्टज्ञानमात्रस्यैव विशिष्टालीकधर्मविषयसंभवात्, सम्यग् मिथ्याज्ञानविभागार्थमेतादृशकुसृष्ट्यादरे चैकत्र धर्मिणि प्रकारीभूतधर्मसत्रम्, अन्यत्र च तदसत्वम्, इत्येतावन्मात्रस्यैव लाघवेनाऽऽश्रयणीयत्वात् । 'इदं रजतं' इत्यत्र पुरोवर्ति रजतमनुभूयते, अतस्तद्देशेऽलीकं रजतं कल्पते, सत्यस्थले तु नैवम्, सत्यस्यैव पुरोदृत्तित्वात् इति विशेषाद् नोक्तानुपपत्तिरिति चेत् । न, 'इदम्' इति विषयतायाः क्षयोपशमविशेषनियम्यतया तदनुरोधेनाऽतिरिक्ताऽकल्पनात्, अन्यथाऽनन्तालीकरजताद्युत्पत्ति-विनाश-तद्धेत्वादिकल्पने गौरवात्, अज्ञातधर्मिणि प्रवृत्त्यनुपपत्तेश्चेति । अधिकं प्रमारहस्ये ।
यच्चाप्युक्तम्- अनुमितित्वस्य मानसत्वव्याप्यत्वाभ्युपगमाद् न प्रमाणान्तरप्रसङ्ग इति । तदप्यसत्, तदानीं वह्निमानसस्वीकारे लिङ्गादीनामपि मानसापत्तेः । न चाचार्यमत इव तंत्र तेज्ञानमात्र इष्टापतिः, एवमप्युच्छृङ्खलोपस्थितानां घटादीनां तत्र भानापत्तेः । न च परामर्शादिरूपविशेषसामग्रीविरहाद् न तैदापत्तिरिति वाच्यम्, सामान्य सामग्रीवशात् तदापत्तेः । न च घटमानसत्वस्य परामर्शप्रतिबध्यतावच्छेदकत्वाद् न तदापत्तिः, पटमानसत्वादीनामपि तथात्वेनाऽनन्तप्रतिबध्य-प्रतिबन्धकभाव१ वह्निमानसज्ञाने । २ लिङ्गादिभानमात्रे | ३ घटभानापत्तिः ।
Jain Educationational
For Private & Personal Use Only
००००
www.jainelibrary.org