________________
सटीकः ।
शास्त्रवार्ता- वालनादिपरिग्रहः, तत्सिद्धेस्तत्फलान्यथानुपपत्तेरपि ; तथा, तत्फलनिर्वाहकातिशयाऽऽश्रयतयाऽप्यात्मसिद्धः । अत्र यद्यपि
हेतुत्रयेणाऽप्यदृष्टसाधनादेवाऽऽत्मसिद्धिः, अदृष्टं चालौकिकम् , इति लोकसिद्धत्वं व्याहतम् । तथाऽप्यनायत्याऽदृष्टकल्पनात् ॥२१॥
तत्र शब्दस्याऽनपेक्षणाल्लोकमसिद्धकार्येण लोकमसिद्धत्वमित्यभिमानः । न चातिशयस्य भोग्यनिष्ठतयैवोपपत्तिः, भोगनिर्वाहार्थ भोगसमानाधिकरणस्यैव तस्य कल्पयितुं युक्तत्वात् । अभिहितं चेदं "संस्कारः पुंस एवेष्टः प्रोक्षणा-ऽभ्युक्षणादिभिः" इत्यादिना कुसुमाञ्जली उदयनेनापि ।
___ इदमभ्युपगम्योक्तम् , वस्तुतः प्रागुक्तरीत्या लोकसिद्धाश्रयणमपि चार्वाकस्य न युक्तम् , तथाहि- यत् तावदुक्तम्अनुभवसिद्धोऽर्थो नापहोतुं शक्यत इति । तदभ्युपगमबाधितम् , अनुभवसिद्धस्य जात्यादिवैशिष्ट्यस्याऽनभ्युपगमात् । परीक्ष्यमाणस्य तस्याऽनुपपत्तेस्तदनुभवबाध इति चेत् । तीनुगताकारविषयत्वेन विशिष्टज्ञानमात्र एव प्रामाण्याभावनिश्चयाद् दुरुद्धरो व्यवहारवाधः । तेस्य तैयाप्यत्वानिश्चयदशायां संदेहसाम्राज्यात् , कोव्यस्मरणदशायां तस्याऽप्यभावाद् वा न तद्बाध इति चेत् । तथापि विशेषदर्शिनस्तव प्रवृत्तिशून्यत्वापातः। धर्मिमात्रविषयकाद् निर्विकल्पकाद् धर्मिमात्रविषयिण्या एव प्रवृत्तेरभ्युपगमाद् न दोष इति चेत् । तर्हि यदुक्तमग्रे- 'तान्त्रिकलक्षणलक्षितमेवाऽनुमानं प्रतिक्षिप्यते, न तु स्वप्रतिपत्तिरूपं व्यवहार
पितृकर्म-विषवालनादिसिद्धेः । २ कुसुमाञ्जली प्रथमस्तबके कारिका ।। ३ जात्यादिवैशिष्टयस्य । ४ जात्यादिवशिष्टयानुभववाधः । ५ अनुगताकारविषयकविशिष्टज्ञानमात्रस्य । ६ प्रामाण्याभावव्याप्यत्वानिश्चयदशायाम् । - संदेहस्याऽपि, उभयकोटिविषयत्वात् तस्य, एकस्या अप्यस्मरणे| ऽभावादित्यर्थः । ८ व्यवहारबाधः । ९ तबाधाभावेऽपि । १० चार्वाकस्य ।
6000099%eo
For Private
Personal Use Only