________________
Jain Education
विज्ञानबहुत्वेऽनेकपरामर्शप्रसङ्गात् यावदवयवेषु व्यासज्यवृत्तित्वे च चैतन्यस्य यत्किञ्चिदाश्रयविनाशे बहुत्वसंख्याया इव विनाशप्रसङ्गात् ; पूर्वचैतन्यविरहे उत्तरचैतन्यानुत्पादात्, परमाणुगतत्वे तद्गतरूपादिवच्चैतन्याऽतीन्द्रियत्वप्रसङ्गाच्च । रूपस्कन्धव विज्ञानस्कन्धैक्योपगमाद् न दोष इति चेत् । न, तथापि 'योऽहमनुभवामि, सोऽहं स्मरामि' इत्यभेदाऽवमर्शानुपपत्तेः । सादृश्येन वैसदृश्य तिरस्कारात् तथाऽवमर्शः, एवं च क्षणभङ्गे स्मृतिकुर्वद्रूपपरमाणुपुञ्जानामेव स्मृतिनियामकत्वाद् न कोऽपि दोष इति चेत् । न, स्थैर्य - प्रत्यभिज्ञाप्रामाण्ययोरुपपादयिष्यमाणत्वादिति दिक् ॥ ४१ ॥
प्रकारान्तरेण लोकसिद्धत्वमाह
दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः। पितृकर्मादिसिद्धेश्च हन्त ! नात्माऽप्यलौकिकः ॥
दिव्यदर्शनतश्चैव, पात्रावतारादौ विशिष्टरूपस्य पुंसः स्पष्टमवेक्षणाच्चैव, 'हन्त' इति खेदे, आत्माऽप्यलौकिको लोकायो न । न हि भूतविशेषस्य मन्त्रविशेषाकृष्टस्याऽऽगमनं संभवति, जडत्वात् ' न वा तत्र विशिष्टशक्तिः संभवति ; तथा, तेन दिव्यदर्शनविषयेण यच्छिष्टं कथितं तस्याऽव्यभिचारादविसंवादिप्रवृत्तिजनकत्वादपि तथा, तन्निर्वाहकातिशयितज्ञानहेत्वतिशयस्य विनाऽऽत्मानमसंभवात् ; पितृकर्म वरप्रदानादिफलकैंपर लोकगतपितृप्रीत्यनुकूलाचारविशेषः, आदिना विष१ साकल्यवृतित्वे । २ 'आत्मसिद्धेः' इत्युत्तरपदेन संबन्धः । ३] बहुव्रीह्यन्तस्याऽस्याऽऽचारविशेषेऽन्वयः ।
onal
For Private & Personal Use Only
www.jainelibrary.org