________________
शास्त्रवार्ता
Des
9aa
चेत् । सत्यम् , उद्धोधकानामपि स्मृत्यावरणक्षयोपशमाऽऽधायकतयैवोपयोगात् तस्यैव स्मृत्यन्तरङ्गहेतुत्वात् ; विनाऽप्युद्धोधक क्षमोपशमपाटवात् झटिति स्मृतिदर्शनात् । संस्कारश्चोत्कर्षतः षष्टिसागरोपमस्थितिकमतिज्ञानभेदान्तःपाती समतिक्रान्तसंख्यातभवावगमस्वरूपमतिज्ञानविशेषजातिस्मरणार्थ न प्राग्भवीय उपयुज्यते, किन्तु स्मृतिसामान्येऽनुभवव्यापाररक्षार्थ जातिस्मरणनियतेहादिचतुष्टयान्तर्भूत एव, तथाविधक्रमानुविद्धस्यैव च्छद्मस्थोपयोगस्य साधनात् , कचिदपायमात्रस्य कचन धारणामात्रस्य च स्फुटत्वेऽपि दोषादन्यानुपलक्षणात् । यदाह भगवान् जिनभद्रगणिक्षमाश्रमणः- .
" उप्पलदलसयवेहे ब दुबिहावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी ॥शा" इति । ।
तत्त्वमत्रत्यं मत्कृतज्ञानार्णवादवसेयम् । 'बालस्य स्तन्यपानप्रवृत्तिरिष्टसाधनताधीसाध्या । सा चानुमितिरूपा । सा च व्याप्त्यादिस्मृतिजन्या। व्याप्त्यादिस्मृतिश्च प्राग्भवीयानुभवसाध्याः इति “वीतरागजन्मादर्शन०" न्यायाद् भवान्तरानुगाम्यात्मसिद्धिः' इत्यपरे वर्णयन्ति । वस्तुतः स्मरणान्तरान्यथानुपपत्त्याऽपि लोकसिद्ध एवाऽऽत्मा, शरीरस्य चैतन्ये बाल्येऽनुभूतस्य तारुण्येऽस्मरणप्रसङ्गात् , चैत्रेणाऽनुभूतस्येव मैत्रेण बाल-युवशरीरयोर्भेदात् परिणामभेदे द्रव्यभेदावश्यकत्वात् । न चोपादानेनानुभूतस्योपादेयेन स्मरणादुपपत्तिः, छिन्नकरादेरनुपादानत्वेन च्छिन्नकरादेः पूर्वानुभूतास्मरणप्रसङ्गात् । न च करेण यदनुभूतं तत् खण्डशरीरोपादानापरकिञ्चिदवयवेनाऽप्यनुभूतम् । इति तद्गतवासनासंक्रमाद् नानुपपत्तिरिति वाच्यम् । प्रत्यवयवगत१ स्मृत्यावरणक्षयोपशमस्य । २ उत्पलदलशतवेध इव दुर्विभावत्वेन प्रतिभाति । समकं वा शुष्कशष्कुलीदशने विषयाणामुपलब्धिः॥१॥
Kim२०॥ ३ विशेषावश्यकभाष्ये गाथेयं २९९। ४ इष्टसाधनताधीः। ५ अनुमितिः।
DOOOOOOOTOR
लहाहा
Jan Education International
For Private
Personal Use Only