________________
Jain Education Inte
आत्मा लोकेऽपि शब्द-तदुपजीविममाणातिरिक्तप्रमाणानुसारिण्यपि, अपिभिन्नक्रमोऽत्रे संबध्यते, नो सिद्ध इति न, किन्तु सिद्ध एव, नव्द्वयादवधारणं प्रतीयते । कुतः १, इत्याह- जातिस्मरणस्य भवान्तरानुभूतार्थविषयस्य मतिज्ञानविशेषस्य संश्रयात् - लोकेनाऽङ्गीकरणात् न हि भवान्तरानुभूतार्थस्मरणमन्वय्यात्मद्रव्यं विनोपपद्यते, शरीरस्य भवान्तराननुयायित्वात् । भवान्तरादागमनाऽविशेषे केषाश्चिदेव जातिस्मरणं न सर्वेषामिति कथं विशेषः १, इति तटस्थशङ्कायामाह - सर्वेषामभिमतव्यतिरिक्तानां तदभावश्च जातिस्मरणाभावश्च, चित्रस्य बहुविधशक्तिकस्य कर्मणस्तैदावरणस्य विपाकः फलप्रदानाभिमुख्यकालस्तस्मात् ॥ ४० ॥
अत्रैव दृष्टान्तमाह
लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते । अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः ॥४१॥
लोकेऽपि - इहलोकेऽपि, एकतो विवक्षितात् स्थानात् आगतानां सर्वेषाम्, अनुभूतार्थसंस्मृतिरविशेषेण नेक्ष्यते, कस्यचिदनुभूतयावदर्थस्मृतिः, कस्यचित् कतिपयार्थस्मृतिः, कस्यचिच्चार्थमात्राऽस्मृतिरिति विशेषदर्शनात् । एवं चात्र दृष्टविशेषस्य चित्रकर्मविपाकप्रयोज्यत्वात्, जात्यस्मरणमपि तत्प्रयोज्यमिति सिद्धम् । अथ तत्र यदंशे संस्कारोद्बोधस्तदंशे स्मरणम्, नष्टचित्तस्य च संस्काराभावाद् न स्मरणम् इत्युद्बोधकसंस्काराभावेनाऽस्मरणोपपत्तौ किं तत्प्रतिबन्धका दृष्टकल्पनेन ?, इति १ सप्तमी, लोकविशेषणम् । २ लोके । ३ जातिस्मरणरूपमतिज्ञानावरणस्य । ४ चित्रकर्मविपाकप्रयोज्यम् ।
For Private & Personal Use Only
www.jainelibrary.org