________________
सटीकः ।
शास्त्रवार्ता
इति पूर्वमननुभवाच न ताशी' स्मृतिः । अय 'यो धूमवान् सोऽग्निमान्' इति व्याप्तिज्ञानं धूमवत्त्वावच्छेदेन वहिप्रकारकं तथैव ॥१९॥
स्मृतिमनुमितिस्थानीयां जनयति; पर्वतत्वांशे उद्बुद्धसंस्कारसहकृताद् वा तेतः 'पर्वतो वहिमान्' इति स्मृतिः, यथा बुद्धिविषयतावच्छेदकावच्छिन्नशक्तादपि तत्पदाद् निरुक्तशक्तिग्रहाऽऽहितसंस्कारेण तत्तद्धर्मावच्छिाशक्त्यंशे उबुद्धेन सहकृतात् पर्वतत्वादिविशिष्टोपस्थितिरिति चेत् । न, विशिष्योरोधकहेतुत्वे गौरवात् , हेत्वाभासादिवैफल्यप्रसङ्गाश्च । तथाप्यनुमित्यभ्युपगमे प्रमाणान्तरपसा इति चेत् । न, अनुमितित्वस्य मानसत्वव्याप्यत्वाद् 'वह्नि न साक्षात्करोमि' इति प्रतीतेगुरुत्वादाविव लौकिकविषयताभावादेवोपपत्तेः, युक्तं चैतत् , अनुमितित्वावच्छिन्नं प्रति चाक्षुषादिसामग्रीप्रतिबन्धकत्वाऽकल्पने लाघवादिति । तथाच 'इदानी घटः' इत्यादिप्रतीतौ संबन्धघटकतया, परत्वादिलिङ्गेन वा कालसिद्धिरिति नव्यचार्वाकाशय इति चेत् ।
अत्राह-लोकसिद्धस्य कालस्याऽऽश्रयेऽङ्गीकारे तु, 'हन्त' इति खेदे, आत्मा कथं नाऽऽश्रीयते श्रद्धीयते । 'लोकसिद्धत्वाविशेषेऽपि सकलप्रयोजनहेतोरनन्यसाधारणगुणस्याऽऽत्मनोऽनङ्गीकारः, तत्तद्वस्तुपरिणामान्यथासिद्धस्य कालस्य चाङ्गीकारः, । इति पुरः परिस्फुरतोमणि-पाषाणयोर्मध्ये मणिपरित्याग-पाषाणग्रहणवदतिशोचनीयं विलसितमिदं देवानांपियस्य, इति 'हन्त' इत्यनेन मूच्यते ॥ ३९॥
लोकसिद्धत्वमेवाऽऽत्मनः स्पष्टयतिनात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् । सर्वेषां तदभावश्च चित्रकर्मविपाकतः॥
1 तादृशानुभवपूर्वकत्वात् तादृश्याः स्मृतः । २ अनुभवात् । ३ सूर्खस्य चार्वाकस्य ।
॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org