________________
ES अधिकभावेन चतुष्टयबहिर्भावेन, तत्त्वसंख्या न युज्यते- " चत्वार्येव तत्वानि " इति विभागव्यायातः स्यात् ॥ ३८ ॥
अत्र पराभिप्रायमाशङ्कय परिहारमाहस्वकालेऽभिन्न इत्येतत्कालाभावे न संगतम्।लोकसिद्धाश्रयेत्वात्मा हन्त!नाश्रीयतेकथम् ॥
स्वकाले परिणामकाले, अभिन्नः पदार्थः। ततो न तत्त्वसंख्याव्याघातः । न चाऽन्यदा चैतन्यव्यक्तिप्रसङ्गः, तत्काले भूतस्य विशिष्टपरिणामभिन्नत्वेन व्यञ्जकाभावात् । न चैकत्र भेदा-ऽभेदोभयविरोधः, कालभेदेनैकत्रोभयसमावेशात् । कथमन्यथा पक्कतादशायां घटादौ 'अयं न श्यामः' इत्यादिधीः । न च तत्र विशेषणसंसर्गाभाव एव विषयः, अनुयोगिनि सप्तमी विना तदनुपपत्तेरिति दिक् । इति- एतत्प्रकारम् , एतत् प्रकृतवचनम् , कालाभावे न संगतम्- अलीकम् । न हि कालो नाम तत्त्वान्तरमिष्यते परैः।
___ अथ शब्द-तदुपजीविप्रमाणयोरेवाऽनादरश्चार्वाकाणाम् , जन्मूलभूताऽऽतानाश्वासात् । अनुभवसिद्धस्त्वर्थो नापह्नोतुं शक्यः। अत एव तान्त्रिकलक्षणलक्षितमेवाऽनुमान प्रतिक्षिप्यते, तोदृशप्रत्यक्षवत् , न तु बाल-गोपालसाधारणानलादिप्रतिपत्तिरूपम् , अन्यथा व्यवहारानिर्वाहात्। न हि धूमपरामर्शात् 'पर्वतो वह्निमान्' इति ज्ञानं जायमानं संशयरूपं, स्मृतिरूपं वा संभवति 'संदेह्मि, स्मरामि' इत्यननुसंधानात् । किश्च, परामर्शस्य निश्चयसामग्रीत्वाद् न संशयहेतुत्वम् , 'पर्वतो वह्निमान्'
१ क, ग, घ, च. 'सेब का मूल पुस्तकेऽप्ययमेव पाठः२ तान्त्रिकलक्षणलक्षितप्रत्यक्षवत् ।
Jain Education into
For Private Personal Use Only
AMw.jainelibrary.org