________________
शास्त्रवार्ता
सटीकः।
कायाकारपरिणामाभाव एवात्राऽऽवृतिः स्यात् , अत्राहविशिष्टपरिणामाभावेऽपि ह्यत्रावृतिन वै।भावताऽऽप्तेस्तथा नाम व्यञ्जकत्वप्रसङ्गतः॥३७॥
विशिष्टपरिणामाभावेऽपि, हिः पादपूरणे, वै निश्चितं, अत्र भूतचेतनायां, आवृतिर्न, आवारकत्वस्य भावत्वव्याप्यत्वेन तथात्वे तस्य भावताऽऽर्भावत्वप्रसङ्गात् । न चाऽऽवारकत्वं न भावत्वव्याप्यम् , अन्धकारे व्यभिचारादिति वाच्यम्; अन्धकारस्य द्रव्यत्वेन व्यवस्थापयिष्यमाणत्वात् । तुच्छत्वादभावस्य नाऽऽवारकत्वमिति तथात्वे भावत्वापत्तिरित्यन्ये । दूषणान्तरमाह- तथा, विशिष्टपरिणामाभावस्य चेतनासाक्षात्कारपतिबन्धकत्वे तेदभावत्वेन तद्धेतुत्वे गौरवाद् नामाऽस्य विशिष्टपरिणामस्यैव लाघवेन व्यञ्जकत्वप्रसङ्गात् ॥ ३७॥
न चेष्टाऽऽपत्तिः, इत्याहन चासौ भूतभिन्नो यत्ततोव्यक्तिः सदा भवेत् । भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते॥३८॥
___ न चासौ विशिष्टपरिणामः, भूतभिन्नो भूतातिरिक्तः, यद् यस्मादेतो; ततः सदा सर्वकालं, व्यक्तिश्चेतनासाक्षा कारो भवेत् , भूताभिन्नविशिष्टपरिणामस्य यावद्भूतकालभावित्वात् । भेदे तु भूतेभ्यो विशिष्टपरिणामस्याऽभ्युपगम्यमाने,
भूतजन्यायां चेतनायाम् । २ कायाकारपरिणामवैशिष्ट्ये । ३ अन्धकारस्य सत्यप्यावारकत्वे तेजोऽभावरूपत्वेन भावस्वव्याप्यत्वाभावादिति परस्याभिप्रायः ।। भावारकत्वे । ५ विशिष्टपरिणमाभावत्वेन । ६ चेतनासाक्षात्कारप्रतिबन्धहतुस्थे ।
र
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org