________________
A NTar
।
HOTOO
अनभिव्यक्तत्वाद् नोपलभ्यत इत्याशयं दुपयतिअनभिव्यक्तिरप्यस्या न्यायतो नोपपद्यते।आवृतिर्न यदन्येन तत्त्वसंख्याविरोधतः॥३५॥
अनभिव्यक्तिरप्यस्याश्चेतनायाः, न्यायतः परमाविचारात् , नोपपद्यते नाऽबाधिता भवति, यद् यस्माद्धेतोः, प्रतिबन्धकसमवधानरूपाऽऽकृतिरत्राऽनभिव्यक्तिरभिमता, नाऽन्या, अनिर्वचनात् । प्रतिवन्धश्चात्र नान्येन भूतातिरिक्तेन, अतिरिक्तमF. तिबन्धकाभ्युपगमे " पृथिव्यादिचतुष्टयमेव तत्त्वम्" इति स्वसिद्धान्तव्याकोपात् ॥ ३५ ॥
भूतानामेव केनचिद् रूपेणाऽऽवारकत्वं भविष्यतीति, अत्राहन चासौ तत्स्वरूपेण तेषामन्यतरेण वा।व्यञ्जकत्वप्रतिज्ञानाद् नावृतिर्व्यञ्जकं यतः॥३६॥
न चासावावृतिस्तत्स्वरूपेण भूतत्वादिना भूतस्वरूपेण, नवा तेषामन्यतरेण पृथिवीत्वादिना, पृथिवी-जलान्यतरत्वादिना वा । कुतः ?, इत्याह- व्यञ्जकत्वप्रतिज्ञानात्- चैतन्यसाक्षात्कारजनकत्वस्वीकारात् । तत्त्वेऽप्यावृतिजनकत्वमस्तु, अत Ke आह- यतो व्यञ्जकमातृतिरावारकं न भवति, एकस्य चैतन्यसाक्षात्कारजनकत्व-तजनकीभूताभावप्रतियोगित्वयोर्विरो
धादिति भावः ॥ ३६॥
MICRORIRITERARTIERREETISATBART
. भूताऽसमुदितावस्थायाम् । २ भूतानाम् ।
T
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International