________________
शास्त्रवाता
॥१७॥
POORNOR
___ सा चेतना, तेषु भूतेषु, सदाऽसंघातावस्थायामपि, शक्तिरूपेण वर्तते । अतस्तदा नोपलभ्यते, व्यक्तिरूपाक्रान्तस्यैवतीका योग्यत्वात् । न च तेनापि प्रसिद्धेन शक्त्याख्येनापि रूपेण, सती चेतना, असती; न ह्यनुपलब्धिमात्रादभावः सिद्ध्यति, किन्तु योग्यानुपलब्ध्या, न चात्र सांऽस्ति, तत्र तद्रूपावच्छिन्नायास्तस्या अयोग्यत्वादिति । समाधत्ते- इति चेत् , न तत् पूर्वोक्तम् ॥ ३३॥
कुतः, इत्याहशक्तिचैतन्ययोरैक्यं नानात्वं वाथ सर्वथा।ऐक्ये सा चेतनैवेति नानात्वेऽन्यस्य सा यतः३४
शक्ति-चैतन्ययोः सर्वथा भेदासहिष्णुतयैक्यमभेदः, अथेति पक्षान्तरे, सर्वथाऽभेदासहिष्णुतया नानात्वं भेदः। आद्यपक्षे दोपमाह-ऐक्येऽभेदे, सा शक्तिः चेतनैव । ततश्च यदि योग्या सा, तदा पागप्युपलब्धिप्रसङ्गः । यदि च न योग्या, तदा पैश्चादप्यनुपलब्धिप्रसङ्गः । द्वितीयपक्षे दोषमाह- नानात्वे भेदे, सा चेतना, अन्यस्य स्याद् न भूतानां, तदन्यशक्तिरूपत्वात् तेषाम् । यत एवम् , ततो न तैदिति योजना । अथ चेतनायाः स्वाभिन्नव्यक्तिरूपा तज्जनकताख्या शक्तिः स्वरूपतो निर्विकल्पकविषयाऽपि तद्रूपेण सविकल्पकागोचर इति न दोष इति चेत् । न, व्यक्तचेतनाया अप्युत्तरचेतनाजनकतया शक्तिरूपेणाऽयोग्यत्वप्रसङ्गात् । चेतनात्वेनैव सा योग्या, न तु शक्तिरूपेणेति चेत् । प्रत्येकदशायामपि चेतनात्वेन योग्यत्वम् , चेतनात्वशून्या चेतना वा प्रसजेदिति महत् संकटम् ॥ ३४॥
॥१७॥ १ योग्यानुपलब्धिः । २ संघातावस्थायाः पूर्वमपि । ३ संघातदशोत्तरकालम् । । भूतानाम् । ५ पूर्वोक्तम् ।
5000
JainEducation inmika
For Private & Personal Use Only
E-alww.jainelibrary.org