________________
__ अत्र परमार्थवादिनामार्हतानां मतमाहअचेतनानि भूतानि न तधर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मेति चापरे॥३१॥
भूतानि पृथिव्यादीनि, अचेतनानि चैतन्याभाववत्त्वेन प्रमितानि । अतश्चेतना तद्धर्मो न- भूतस्वभावभूता न । अत एव च तत्फलं न- भूतोपादानकारणजन्या न, मृदो घटस्येव तत्स्वभावस्यैव तदुपादेयत्वात् । अस्ति च चेतना, प्रतिप्राण्यनुभवसिद्धत्वात् । अतो यस्येयं स्वभावभूता, फलभूता च; स एवाऽऽत्मा, परिशेषात् , इति चाऽपरे जैनाः ॥ ३१ ॥
विपक्षे बाधकमाहयदीयं भूतधर्मः स्यात् प्रत्येकं तेषु सर्वदा। उपलभ्येत सत्त्वादि-कठिनत्वादयो यथा॥३२॥
यदीयं चेतना, भूतधर्मः स्यात् तदा तेषु भूतेषु, प्रत्येकमसंघातावस्थायां, सर्वदा- इन्द्रियविषयसंप्रयोगकाले, उपलभ्येत, भूतसामान्यधर्मत्वे सत्वादिवत् , भूतविशेषधर्मत्वे च कठिनत्वादिवत् , योग्यत्वादिति भावः, मध्यगताऽऽदिपदादयं विभागः प्रतीयते ॥ ३२॥
पराभिप्रायमाहशक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते।न च तेनापि रूपेण सत्यसत्येव चेन्न तत्॥३३॥
ORA
पसाखर
For Private
Personal Use Only