SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवार्तामाद्रियताम् । ॥१६॥ अथ ' अनुमानं न प्रमाणम्' इति वाक्यस्य प्रामाण्ये शब्दप्रामाण्यापातः, अप्रामाण्ये चानुमानप्रामाण्यापात इति चेत् । न, एतद्वाक्यस्य प्रमाकरणत्वाभावरूपाप्रामाण्यविषयत्वात् , असत्ख्यातिसत्वे विशिष्टज्ञानमात्रस्यैव भ्रमत्वेन भ्रमजनकत्वेऽप्यविरोधाच । न च प्रत्यक्षप्रामाण्यमप्यनुमानाधीनग्रहम् , इत्यनुमानोपगम आवश्यकः, खताप्रामाण्यग्रहे तत्संशयायोगादिति वाच्यम् : स्वलक्षणविषयकत्वरूपव्यावर्तकधर्मदर्शनात् , स्वसंवेदनेन तद्वयक्त्यात्मकसद्विषयकत्वनिश्चयाच्च, निर्विकल्पके तत्संशयायोगात् , सविकल्पकस्य चानुमानवदप्रमाणत्वात् । निर्विकल्पके सन्मात्रावलम्बनत्व-स्वप्रकाशविषयत्व-प्रामाण्यावगा. हित्वानां सिद्धिरप्यनुमानादेवेति चेत् । न, स्वरूपतस्तेषामपि स्वग्राह्यत्वात् , तत्तद्रूपेण तु संभावनाविषयत्वादेव 'निर्विकल्पकं सन्मात्रविषयम् ' इति धियः 'अयं घटः' इतिधीतुल्यत्वादिति दिक् । अत एव शब्दोऽपि न मानम् , परस्परविरुद्धार्थाभिधायकानामागमानां विनिगन्तुमशक्यत्वात् , शब्दस्य वासनामात्रप्रभवत्वात् , तन्मात्रजनकत्वाच्च; अन्यथाऽसदर्थप्रतिपादकशब्दप्रयोगो दुर्घटः स्यात् । तर्हि तवागमो निष्पयोजनः स्यादिति वेत् । न, परं प्रति दूषणपर्यनुयोगात् , परस्य तदनुत्तरमात्रेण निग्रहे च तत्सार्थक्यात् । अत एव "सर्वत्र पर्यनुयोगपराणि सूत्राणि बृहस्पतेः" इत्यभिहितम् । ततोऽदृष्टे मानाभावाद् नास्त्यात्मा । इति लोकायतिकमवादः॥३०॥ १ क. 'यत्व' । २ स्वसंवेदनग्राह्यत्वम् । ३ सन्मात्रावलम्बनत्व-स्वप्रकाशविषयत्व-प्रामाण्यावगाहित्वानाम् । ५ चार्वाकस्य । Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy