SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Oue इदं प्रत्यक्षोपलभ्यमानं, जगत् चराचरं, पृथिव्यादीनि पृथिवी-अप-तेजो वायुलक्षणानि यानि चत्वारि महाभूतानि तन्मात्रकार्य, मात्रपदेनाऽऽकाशादिव्यवच्छेदः । नन्वात्मन एव न तथात्वम् , इत्यत आह-न चात्मा शरीरातिरिक्तोऽहंपत्ययालम्बनमस्ति " चैतन्यविशिष्टः कायः पुरुषः" इति वचनात् । एवं भूतवादिनो लोकायतिकाः, दृष्टसद्भावं प्रत्यक्षवस्तुन एव पारमार्थिकत्वं, मन्यन्ते, नाऽदृष्टस्य, तत्र मानाभावात् । न ह्यनुमानं तत्र मानम्, व्यभिचारिसाधारण्येन तस्याप्रमाणत्वात् , वह्वयादिसंभावनयैव तत्र प्रवृत्युपपत्तेः । अगृहीताऽसंसर्गकवयादिस्मृतिरूपायां संभावनायामसद्विषयिण्यां परमार्थसत्खलक्षणविषयाध्यक्षविषयविषयकत्वरूपसंवादोऽपि न संभवतीति चेत् । न, अध्यक्षमूलकविकल्पविषयकत्वरूपसंवादस्य सद्विषयकत्वरूपप्रामाण्यासहचरात् कथं ततस्तदभिमानः ?, इति चेत् । सत्यम् , तथाप्यध्यक्षमूलकाध्यक्षान्तरसाधारणस्याऽध्यक्षमूलकविषयविषयकत्वलक्षणसंवादस्योक्तमामाण्यसहचारात् । तथापि दृष्टसाधयेणाऽनुमानाप्रामाण्यसाधनमनुमानप्रामाण्यानभ्युपगमे दुःसमाधानमिति चेत् । सत्यम् , साधर्म्यदर्शनस्योद्बोधकविधया, साधारणधर्मदर्शनविधया वाऽग्रहीतासंसर्गकार्थस्मृतिरूपायाम् , उत्कटकोटिकसंशयरूपायां वा संभावनायामेवोपयोगात् । संभावनाया एव च बहुशो व्यवहारहेतुत्वात् । अत एव न परकीयसंदेहादिप्रतिसन्धाननिमित्तशब्दप्रयोगाद्यनुपपत्तिः । धूमदर्शनात् प्रागप्यर्थसंशयरूपा संभावनाऽस्त्येव, न तु प्रवृत्तिः, इति | व्यभिचार इति चेत् । न, धूमदर्शनप्राक्कालीनस्य तस्य विध्यंशेऽनुत्कटकोटिकत्वेन संभावनाऽनात्मकत्वात् । धृमदर्शनोत्तरकालीनस्याऽपि तस्याविशेषात् कथमुत्कटकोटिकत्वम् ?, इति चेत् । तर्हि विशिष्यैव धूमदर्शनादेरुत्कटकोटिकार्थसंशयहेतुत्व । स्वलक्षणशब्दो विशेषपरिभाषकः । गयां वा संभावनायनस्योद्रोधकविधया, साधम्र्पणाऽनुमानामामा COICRORE रसार Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy