________________
| सटीकः।
शास्त्रवार्ता- सासत्वाद् नेदानीं वक्ष्यते । पुरस्तादेव चावसरसंगत्या वक्ष्यत इत्याह॥ १५॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता।तथोपरिष्टाहक्ष्यामः सम्यक्शास्त्रानुसारतः॥२८॥
तस्माच्च धर्मात्, यथा येन प्रकारेण, मृतिरायुःक्षयः, आदिना रोग-शोकादिग्रहः, तद्वर्जिता तद्रहिता, मुक्तिनिवृतिः, यथा भवति, तथोपरिष्टादग्रे, सम्यग- अविरोधेन, शास्त्रानुसारतः शास्त्रतात्पर्य परिगृहय, वक्ष्यामः ॥ २८ ॥
इदानीं तु प्रसङ्गसंगत्या शास्त्रपरीक्षैव क्रियत इत्याहइदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते।कुवादियुक्त्यपव्याख्यानिरासेनाऽविरोधतः॥२९॥
इदानीं तु समासेन संक्षेपेण, विस्तरतस्तत्करणे त्वायुःपर्यवसानात्, शास्त्रस्य सम्यक्त्वं प्रामाण्या-मामाण्याविभागः, उच्यते । कथम्? , इत्याह- कुवादिनां चार्वाक-मीमांसकादीनां युक्तयश्चापव्याख्याश्च कुवादियुक्त्यपव्याख्यास्तासां निरासेन बलवत्प्रमाणवाध्यत्व-भ्रान्तिमूलकत्वोपदर्शनेन, अविरोधतस्तदापादितविरोधाशङ्कानिरासादिति भावः ॥ २९ ॥ __तत्रादौ चार्वाकयुक्तीनिराचिकीर्षुस्तन्मतोपन्यासमाह
पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत्। ने चात्मा, दृष्टसद्भावं मन्यन्ते भूतवादिनः॥३०॥ | १ क. रणस्य दुःशकत्वात् , शिष्यहिताहेतुत्वाच्च शा'। २ 'न चारमा-ऽदृष्टसद्भावं' इति द्वन्दसमासगर्भित एव क्रियान्वयी पाठो मूल-स्वोपज्ञटीकयोरङ्गीकृतः।
BACHOICCPxICHIDD
॥१५॥
For Private Personal Use Only
Jain Education Inter
wwjainelibrary.org