________________
पर्यवसितमाह। अतस्तत्रैव युक्तास्था यदिसम्यनिरूप्यते। संसारे सर्वमेवान्यद्दर्शितं दुःखकारणम् ॥२७॥
___अतः पूर्वपक्षोक्तयुक्तिनिरासात् , तत्रैव धर्म एव, आस्था युक्ता, यदि सम्यग- आगमोपपत्यनुसारेण, निरूप्यते विचायते । प्रतिपक्षप्रवृत्तिनिरासायोक्तमेव स्मारयति- संसारे सर्वमेवाऽन्यद् धर्मातिरिक्तं, दुःखकारणं केवलदुःखमयं, दर्शितम्"अनित्यः प्रियसंयोगः" इत्यादिना । अत्रेदं पतञ्जलिमूत्रम्- “परिणाम-ताप-संस्कार-दुःखैर्गुणवृत्तिविरोधाच दुःखमेव सर्वे विवेकिनः" (पात० २, १५) इति । राग एव हि पूर्वमुद्भूतः सन् विषयप्राप्त्या सुखं परिणमते । तस्य च प्रतिक्षणं प्रवर्धमानत्वेन
खविषयाप्राप्तिनिबन्धनदुःखस्य दुष्परिहरत्वात् परिणामदुःखता । तथा, सुखमनुभवन् दुःखसाधनानि द्वेष्टि, तदपरिहारक्षमश्च मुह्यतीति तापदुःखता । तथा, वर्तमानसुखानुभवः स्खविनाशकाले संस्कारमाधत्ते, स च सुखस्मरणं, तच्च रागं, स च मन:काय-वचनप्रवृत्ति, सा च पुण्या-पुण्यकर्माशयौ, तौ च जन्मादीनि', इति संस्कारदुःखता ।। एवं कालत्रयेऽपि सुखस्य दुःखानुषङ्गाद् दुःखरूपता सिद्धा, उद्भूतसत्त्वकार्यत्वेऽपि सुखस्याऽनुद्भूतरजस्तमाकार्यत्वात् स्वभावतोऽपि दुःखविषादरूपता। समवृत्तिकानामेव हि गुणानां युगपद्विरोधः, न तु विषमवृत्तिकानाम् , इत्येकदोद्भूता-ऽनुद्भूततया न सुख-दुःख-मोहविरोधः॥२७॥
तदेवं 'धर्म एव युक्ताऽऽस्था' इति समर्थितम् । तस्माद् मुक्त्युत्पत्तिप्रकारश्चावश्यवक्तव्योऽपि प्रतिबन्धकशिष्यजिज्ञा
१ शोक० १२। २ 'आधत्ते' इत्यनेन संबन्धः ।
PAPARRESO
OR
Jain Education in
For Private & Personel Use Only
Maiwww.jainelibrary.org