SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥ १४ ॥ सदैव स्यादिति चेत् । तर्हि कालान्तरेऽप्युत्पत्तिप्रसङ्गः । तदहरेवोत्पत्तिस्वभावत्वाद् नान्यदोत्पत्तिरिति चेत् । तर्हि तत्तद्धेतुसकाशादेवोत्पत्तिस्वभावत्वादायातं सहेतुकत्वम् । आकाशस्य क्वाचित्कत्ववत् कादाचित्कत्वमप्यत्र न हेतुनियम्यमिति चेत् । न, कादाचित्कत्वस्यावधिनियतत्वात् । सन्त्ववधयः, न तु तेनाऽपेक्ष्यन्त इति चेत् । न नियतपूर्ववृत्तित्वस्यैवाऽपेक्षार्थत्वात्, अन्यथा 'गर्दभाद् धूमः' इत्यपि प्रमीयेतेति । अधिकमुपरिष्टाद् वक्ष्यते ॥ २४ ॥ फलितमाह तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥ २५॥ तस्मात् कादाचित्कत्वस्य सहेतुकत्वव्याप्यत्वात्, अवश्यं कश्चित् तयोर्धर्माधर्मयोः क्षये हेतुरेष्टव्योऽङ्गीकर्तव्यः । य एव चात्र हेतुः स एव शुद्धः सर्वाशंसारहितः, मुक्तिलक्षणफलप्रदः, धर्मो धर्मपदवाच्यः, मन्तव्यः श्रद्धेयः ॥ २५ ॥ चोद्यशेषं परिहरति | धर्मा-धर्मक्षयाद् मुक्तिर्यच्चोक्तं पुण्यलक्षणम्। हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम्॥२६॥ यच्च “धर्मा-धर्मक्षयाद् मुक्तिः" इत्युक्तम्, तत् पुण्यलक्षणं हेयं त्याज्यं धर्मम्, आश्रित्य प्रकृतधर्मपदशक्तिग्रहविषयीकृत्य; न तु संज्ञानयोगकं संज्ञायां कप्रत्ययात् संज्ञानयोगसंज्ञं धर्ममाश्रित्य तेन न वाधः । इति सर्वमवदातम् || २६ ॥ Jain Education International For Private & Personal Use Only सटीकः । ॥ १४ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy