________________
भावादर्थत एव स्वर्गोत्पत्तिः' इत्याहुः । सर्व एवैते सदादेशाः, भगवदनुमतविचित्रनयाश्रितमहर्षिवचनानुयायित्वात् इत्यवसेयम् ॥ २२ ॥ उक्तधर्मद्वैविध्यं शब्दान्तरेण तन्त्रान्तरेऽपि संमतमित्याह
भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः । सम्यङ्ग्मिथ्यादिरूपश्च गीतस्तन्त्रान्तरेष्वपि ॥२३॥ भोगफल को धर्मः, अन्यथ मुक्तिफल इति शैवाः । प्रवृत्यात्मक एकः, निवृत्त्यात्मकञ्चान्य इति त्रैविद्यवृद्धाः । सम्यग्रूप एकः, मिथ्यारूपश्चान्य इति शाक्यविशेषाः, आदिपदाद् हेयोपादेयाऽभ्युदयनिःश्रेयसपरिग्रहः । एवं तन्त्रान्तरेषु जैनातिरिक्तदर्शनेष्वपि, अयं द्विभेद उक्तः ।। २३ ।।
आगमविप्रतिपन्नं प्रति संज्ञानयोगे कार्यान्यथानुपपत्तिं प्रमाणयति
तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते ? | सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः॥२४॥
तमन्तरेण तु संज्ञानयोगं विना तु, तयोर्धर्मा-धर्मयोः क्षयः केन हेतुना, प्रसाध्यते ९, न केनापि । तथाविधहेत्वनुपलम्भादहेतुक एवायमस्तु सहेतुकविनाशस्य दुःश्रद्धानत्वादिति बौद्धाशङ्कायामाह - यथहेतुक एव हेतुरहित एव, स धर्माsaभक्षयः, तदोत्पत्तिस्वभावत्वे सदैव स्यात्, अनुत्पत्तिस्वभावत्वे कदापि वा न स्यात् । कदाचिदुत्पत्तिस्वभावत्वाद् न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org