________________
सटीकः।
शास्त्रवातो-
॥१३॥
त्वयोरपि तद्ग्रहप्रसङ्गादित्याशयः । इदमेव व्यतिरेकाशङ्कानिरासेन द्रढयति- अन्येऽपि पुण्यलक्षणा धर्माः, एवम्- अबन्धफलाः, किं न ? इति चेत् । यद् यस्माद्धेतोः, तथा आशंसावर्जिता न, अबन्धहेतुत्वनियतधर्माभावाभिधानमेतत् । नन्विदमयुक्तमुक्तम् , एकस्यैव चारित्रस्य सरागत्व-वीतरागत्वाभ्यां शुभवन्ध-मोक्षोभयहेतुत्वसंभवात् । अत एव पूर्वतपः-पूर्वसंयमयोः स्वर्गहेतुत्वं भगवत्यामुक्तम् । न च बन्ध-मोक्षजनकतावच्छेदकरूपविभेदाद् नोक्तदोष इति वाच्यम्, सरागत्व-वीतरागत्वातिरिक्ततजनकतावच्छेदकरूपकल्पने मानाभावात् । कर्मक्षयोपशम-क्षयजन्यतावच्छेदकयोरेव तज्जनकतावच्छेदकत्वमिति चेत्, एवं सति शैलेशीसमयभाविन एव चारित्रस्य मोक्षहेतुत्वपर्यवसाने ऋजुमूत्रनयाश्रयणप्रसङ्गादिति चेत् । सत्यम् , तदुपगृहीतव्यवहाराश्रयणेनैवेत्थमभिधानात्; शुद्धर्जुमूत्रनयेन तु ज्ञान-तपसोरन्यथासिद्धत्वम् , तज्जन्यक्रियाया एव मोक्षोपपत्तेः । यदाह भगवान् भद्रबाहुः- "सद्जुसुआणं पुण निव्वाणं संजमो चेव" इति । यद्वा, आशंसासाहित्य-राहित्याभ्यां बन्ध-मोक्षजनकतावच्छेदकरूपभेद एवात्रोपवर्णितः । तथा अन्यः पुण्यलक्षणः" इत्यत्रान्यपदं च वैधार्थकम् , अतो न किञ्चिदनुपपन्नम् । परे तु'तपस्त्व-चारित्रत्वाभ्यामेव मोक्षहेतुता, संकोचे मानाभावात् , सरागताकालीनप्रशस्तसङ्गादेव स्वर्गोत्पत्तेर्वस्तुतः सरागतपसः स्वर्गहेतुत्वं “ सविशेषणे हि०" इति न्यायेनं रागमात्र एव पर्यवस्यति' इत्याहुः । अपरे तु-'मोक्षोद्देशेन क्रियमाणयोस्तपःसंयमयोमोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वाद् न फलत्वम् , कर्माशप्रतिबन्धाच न तदा मोक्षोत्पादः, ततो गत्यन्तरजनकादृष्टातिच्छब्देन व्याप्तिपरामर्शः, न यमनयोग्रूयते, कनेर खपि पार्थिवस्वे लोहलेख्यत्वाभावेनाऽविनाभावाभावादिति भाः । २ इतः प्रभृति 'प्रसङ्गात् इत्येतत्पर्यन्तः प्रतिविहिताभ्यन्तरपूर्वपक्षकः पूर्वपक्षः । ३ शब्द-जुसूत्रयोः पुनर्निवाणं संयम एव । १ श्लो० २० ।
TAR
॥१३॥
Jain Education Inter
For Private & Personal Use Only
ROw.jainelibrary.org