________________
प्रज्ञातसमाधिन वृत्तिनिरोधार्थमपेक्षणीयः, किन्तु भवोपग्राहिकर्मक्षयार्थमिति सूक्ष्ममीक्षणीयम् , ज्वरपरवशपुरुषवचनप्रायाणां परतन्त्राणां काकतालीयन्यायेनैव कचिदर्थावाधादिति दिग् । तदेवं ध्यानरूपमेवं तपो ज्ञान क्रियाभ्यामपृथग्भूतमपृथग्भूततत्तद्वयापारयोगि परमयोगाभिधमपवर्गहेतुरिति नियूंढम् । तत्र च धर्मपदशक्तिराप्तवाक्यादेव, स्वारसिकप्रयोगे लक्षणानवकाशात्, अन्यथा विनिगमनाविरहात् । देवार्चादौ धर्मजनकत्वेनैव धर्मपदप्रयोगो न तु स्वरसत इति चेत् । तथाप्यत्र योगजादृष्प्रयोजकतया धर्मपदप्रयोग इति न वैषम्यम् ॥ २१॥ .
. गूढाशयः पृच्छतिधर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत्। आशंसावर्जितोऽन्येपि किंनैवं चेन्न यत्तथा॥२२
तदपि शुद्धतपोऽपि, धर्मो धर्मव्यवहारविषयः । गृहाशय एवोत्तरयति- इति चेत , सत्यं धर्मपदव्यवहारविषय एवेत्यर्थः । उद्घाटिताशयः पृच्छति- बन्धफलः कर्मबन्धहेतुः, स धर्मः, किं न भवति ?; धर्मव्यवहारविषयत्वं हि शुभवन्धहेतुत्वेन सहचरितमुपलब्धम् , अतो ज्ञानयोगेनाऽपि धर्मेण सता बन्धफलेन भवितव्यमिति परस्याशयः। व्यक्ताशय एव समाधत्ते- यद् यस्माद्धेतोः, स धर्मः, आशंसावर्जितः, प्रसिद्धधर्मव्यापकधर्माभिधानमेतत् । अन्यो हि धर्मो बन्धहेतुः, अन्यश्चानीदृशः, अतो न धर्मव्यवहारविषयत्वेन बन्धहेतुत्वपस्य, सहचारमात्रेण व्याप्त्यग्रहात् , अन्यथा पार्थिवत्व-लोहलेख्य
१ स. ग. घ. च. 'णां का'। २ .ग.प.च.'ततत' । ३ मूल-स्वोपज्ञटीकयोः 'अन्योऽपि' इति पाठः । ४ क. 'मव्य' ।
JainEducation Intes
For Private
Personel Use Only
Taw.ainelibrary.org