________________
शास्त्रषावा
सटीकः।
॥१३॥
ReceBREASOologe
"आगमेनाऽनुमानेन ध्यानाभ्यासरसेन च । विधां प्रकल्पयन् प्रज्ञा लभते योगमुत्तमम् ॥१॥" इति ।
तजन्यसंस्काराणां व्युत्थानादिसंस्कारविरोधित्वात् । तत्प्रभवप्रत्ययाभावेऽप्रतिहतप्रसरः समाधिः। ततस्तजा प्रज्ञा, ततस्तत्कृताः संस्काराः, इति नवो नवः संस्काराशयो वर्धते, ततश्च प्रज्ञा, ततश्च संस्कार इति । ततो योगिप्रयत्नविशेषेण संप्रज्ञातसमाधयुत्थानजानां च संस्काराणां निरोधादसंप्रज्ञातसमाधिर्भवति । तदुक्तम्- "तस्यापि निरोधे सर्वनिरोधाद् निर्बीजः समाधिः" (पात०१,५१) इति । तदा च निरोधचित्तपरिणामप्रवाहः, तज्जन्यसंस्कारप्रवाहश्चावतिष्ठते । तदुक्तम्-"संस्कारशेषोऽन्यः" (पात०१,१८) इति । ततः प्रशान्तवाहिता संस्कारात् । सा ह्यवृत्तिकस्य चित्तस्य निरिन्धनाग्निवत् प्रतिलोमपरिणामेनोपशमः, तत्र पूर्वप्रशमजनितः संस्कार उत्तरोत्तरप्रशमहेतुरिति । ततो निरिन्धनाग्निवञ्चित्तक्रमेणोपशाम्यव्युत्थानसमाधिनिरोघसंस्कारैः सह स्वस्यां प्रकृतौ लीयत इति । अत्र चतुर्विधोऽपि संप्रज्ञातसमाधिः शुक्लध्यानस्याद्यपादद्वयं प्रायो नातिशेते । षोडशकादिविषयोपवर्णनं च तत्राप्रामाणिकखप्रक्रियामात्रम्, तत्र मानाभावात्, आत्मविषयकसाक्षात्कारे आत्मविषयकस्यैव ध्यानस्य हेतुत्वाच । वितर्कश्चात्र विशिष्ट श्रुतसंस्काररूपः, विचारश्च योगान्तरसंक्रमरूपो ग्राह्यः, विशिष्टज्ञाने सविकल्पक-निर्विकल्पकव्यवस्थायोगात्, परिभाषामात्रस्य निरालम्बनत्वात् पृथकानभिधानेन चात्र न्यूनत्वम् । प्रज्ञालोकश्च केवलज्ञानादधः सचित्रालोककल्पश्चतुर्ज्ञानप्रकर्षोंत्तरकालभावी प्रातिभाऽपरनामा ज्ञानविशेषः। ऋतम्भरा च केवलज्ञानम् । ततः संस्काराशय. द्धिश्चासंभवदुक्तिका, मतिज्ञानभेदस्य संस्कारस्य तन्मूलभूतज्ञानावरणक्षयेणैव क्षीणत्वात् । अतश्चरमशुक्लध्यानांशस्थानीयोऽसं
१ "तस्य प्रशान्तवाहिता संस्कारात्" इति पातञ्जलयोगसूत्रम् (३,१०)। २ प्रशान्तवाहिता ।
॥१२॥ .
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org