________________
ग्रहणयोरपित मूत्रितं च-०१,४१) इति समाए
शब्दार्थोल्लेखेन च भावना क्रियते सविकल्पकवृत्तिरूपा, तदा सवितर्कः समाधिः । यदा त्वस्मिन्नेवालम्बने शब्दार्थस्मृतिविलये तच्छून्यत्वेन भावना प्रवर्तते निर्विकल्पकवृत्तिरूपा, तदा निर्वितर्कः समाधिः । यदाऽन्तःकरणं सूक्ष्मविषयमालम्ब्य देश-कालधर्मावच्छेदेन सविकल्पकवृत्तिरूपा भावना प्रवर्तते, तदा सविचारः समाधिः । यदा चास्मिन्नेव विषये तदवच्छेदं विना निर्विकल्पकवृत्तिरूपा धर्मिमात्रभावना प्रवर्तते, तदा निर्विचारः समाधिरिति । रजस्तमोलेशानुविद्धान्तःकरणसत्त्वस्य भावनात्मको भाव्यमानसत्त्वोद्रेकेण सानन्दः समाधिः, यत्र बद्धधृतयः प्रधान-पुरुषतत्त्वान्तराऽदर्शिनो विदेहशब्देनोच्यन्ते । रजस्तमोलेशानभिभूतशुद्धसत्त्वमालम्ब्य भावनात्मकश्चिच्छक्तेरुद्रेकात् सत्तामात्रावशेषत्वेन सास्मितः समाधिः, यत्र स्थिताः परं पुरुषं पश्यन्ति । तदिदं समाधिद्वयं ग्रहीत-ग्रहणयोरपि चित्तवृत्तिविषयतया ग्राह्यकोटावेव निक्षेपाद् नातिरिच्यते । तदिदमुक्तम्- “मूक्ष्मविषयत्वं | चालिङ्गपर्यन्तम्" (पात० १,४५) इति । मूत्रितं च- "चतुर्विधा हि ग्राह्यसमापत्तिः" इत्यादि। "क्षीणवृत्तेरभिजातस्येव मणेहीतृ-ग्रहण-ग्राह्येषु तत्स्थतदञ्जनता समापत्तिः" (पात०१,४१) इति समापत्तिलक्षणम् । तत्स्थता तदेकाग्रता तन्मयता न्यग्भूते चित्ते भाव्यमानोत्कर्षः स्फटिकोपरागस्थानीयः। निर्विचारसमाधेः प्रकृष्टाभ्यासाच्छुद्धसत्त्वोदेके क्लेशवासनारहितस्य चित्तस्य भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति। तदुक्तम्-निर्विचारवैशारद्येऽध्यात्मप्रसाद" (पात०१,४७) इति "ऋतम्भरा तत्र प्रज्ञा" (पात० १,४८)। ऋतं सत्यमेव विभर्ति भ्रान्तिकारणाभावात् , इति ऋतम्भरा, यौगिकीयं संज्ञा, सा चोत्तमो योगः, तथा च भाष्यम्
अलिङ्गे प्रधाने पर्यन्तः परिसमाप्तियस्य तदित्यर्थः । २ पातञ्जलयोगसूत्रे 'पर्यवसानम्' इति पाठः समुपलभ्यते ।
Jain Educati
o
nal
For Private
Personel Use Only
www.jainelibrary.org