SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- सटीकः । ११ ॥ सारं ?, 'किं चाऽसारम् ?, इति गुरु-शास्त्रपारतन्त्र्येण ज्ञानोद्योगो यतमानम् । विद्यमानस्वचित्तदोषाणां मध्येऽभ्यस्यमानविवेके- नैतावन्तः पक्काः, एतावन्तश्चावशिष्टाः, इति चिकित्सावद् विवेचनं व्यतिरेकः । दृष्टा-ऽऽनुश्रविकविषयप्रवृत्तेर्दुःखमयत्वबोधेन बहिष्पवृत्तिमजनयन्त्या अपि तृष्णाया औत्सुक्यमात्रेण मनस्यवस्थानमेकेन्द्रियम् । तृष्णाविरोधिनी चित्तवृत्तिर्ज्ञान प्रसादरूपा वशीकारः । तदिदं मूत्रितम्- "दृष्टा-ऽऽनुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्" (पात० १,१५) इति । तदन्तरङ्ग साधनं संप्रज्ञातस्य समाधेः, असंप्रज्ञातस्य तु बहिरङ्गम् । परंतु वैराग्यं संप्रज्ञातसमाधिपाटवेन गुणत्रयात्मकात् मंधानाद् विविक्तस्य पुरुषस्य साक्षात्कारादगुणशेषगुणत्रयव्यवहाँरेषु वैतृष्ण्यं यत् । “तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्" (पात. १, १६) इति मूत्रम् । | तदन्तरङ्ग साधनमसंप्रज्ञातसमाधेः, तत्परिपाकनिमित्ताच्च चित्तोपशमातिशयात् कैवल्यम् , इति यथास्थानं व्यवस्थापनात् ।। अत्रेदमवधेयम्- अभ्यस्तं तपः समुच्छिन्नक्रियाऽनिवृत्तिरूपं ध्यानमेव, तस्यैव साक्षाद् मोक्षहेतुत्वात् । न च मोक्षहेतुशुद्धात्मज्ञानेन तस्य व्यवधानम् , समकालभाविनोरपि ज्ञान-ध्यानयोः प्रदीप-प्रकाशयोरिव निश्चयतो हेतुत्वाश्रयणात् । तदिदमभिप्रेत्योक्तम् " मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच्च तद् ध्यानं हितमात्मनः॥१॥" इति । समाधिरिति च शुक्लध्यानस्यैव नामान्तरं परैः परिभाषितम् । तथाहि- चतुर्विधस्तैः संप्रज्ञातसमाधिरुक्तः- सवितर्कः, निर्वितर्कः, सविचारः, निर्विचारश्चेति । यदा स्थूलं महाभूतेन्द्रियात्मकषोडशविकाररूपं विषयमादाय पूर्वा-परानुसन्धानेन, १ ख. ग. घ. च. 'किं न्वसा' । २ सत्त्व-रजः-तमोल्पात् । ३ प्रकृतेः । ४ क. 'हारे वै' । ५ क. 'मण्यं तत्' । ॥ ११ ॥ LICENCHA Jain Education Into For Private & Personel Use Only hliww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy