SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ (पात० २, ७) "दुःखानुशयी द्वेषः" (पात० २, ८) "स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः" । (पात० २, ९) पाब्दज्ञानानुपाती वस्तुशून्यः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारो विकल्पः, शशविषाणम्, असत्पुरुपस्य चैतन्यमित्यादि । “अभावमत्य. यासम्बना वृत्तिनिद्रा" (पात०१,१०) चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तरालम्बना वृत्तिर्निद्रा न तु ज्ञानाद्यभावमात्रमिति भावः । अनुभूतविषयासंप्रमोपप्रत्ययः स्मृतिः, पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः । तासां निरोधः सवासनानां क्षयः। स चाऽभ्यासेन वैराग्येण च भवति । वैराग्येण चित्तनद्या विषयप्रवाहो निवार्यते, समाध्यभ्यासेन च प्रशान्तवाहिता संपाद्यते, इति द्वारभेदादुभयोः समुच्चयात्, एकद्वारवे हि ब्रीहि-यववद् विकल्प एव स्यात् , न तु समुच्चय इति । “तत्र स्थितौ यत्रोऽभ्यासः" (पात० १,१३) तत्र द्रष्टरि शुद्ध चित्तस्याऽत्तिकस्य प्रशान्तवाहितारूपा निश्चला स्थितिस्तदर्थ यत्नो पानस उत्साहो 'बहिर्मनो निरोत्स्यामि' इत्याकारः, स चाऽऽवय॑मानोऽभ्यास उच्यत इति । “स तु दीर्घकाल-नैरन्तय-सत्कारासेवितो दृढभूमिः"(पात०१,१४) अनिर्वेदेन दीर्घकालासेवितः, अविच्छेदेन निरन्तरासेवितः, श्रद्धातिशयेन सत्कारासेवितो दृढभूमिर्विषयसुखवासनया चालयितुमशक्यो भवति, अन्यथा तु लय-विक्षेप-कपाय सुखास्वादापरिहारे व्युत्थानसंस्कारमावल्यात् समाधिसंस्काराणां भङ्गुरतयाsदृढभूमिरेव स्यात् , इति कथं ततो विशिष्टफलसिद्धिः स्यात् । वैराग्यं च द्विविधम् - परम् , अपरं च। तत्र यतमानसंज्ञा-व्यतिरेकसंज्ञै-केन्द्रियसंज्ञा-वशीकारसंज्ञाभेदैरपरं चतुर्धा । तत्र किमिह १ पूर्वभवीयमरणदुःखानुभवजन्यो चासनासंघातः स्वरसपदवाच्यः, तेन रूपेण वहनशील इत्यर्थः । २ पञ्चानां वृत्तीनाम् । ३ मूलसूत्रे निमित्तसप्तम्यङ्गीकारात् । ४ ख. ग. घ. 'हारेब्यु' । Jan Education Internationa For Private Personal Use Only www.jainelorary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy