________________
शास्त्रवार्ता -
॥ १० ॥
Jain Education |
तेन सहितो योगः शुभवीयोंल्लासः । एवकारः प्रसिद्ध्यर्थः । तथा, अन्यो धर्मः, पुण्येन सातादिना कार्येण लक्ष्यत इति पुण्यलक्षणः ॥ २० ॥
अत्र पुण्यलक्षणधर्मस्य सुप्रसिद्धत्वाज्ज्ञानयोगधर्मस्य स्वरूपं फलं चाह
ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं तद्धि मुक्तेः प्रसाधकम् ॥२१॥
आशंसादोषेणेह परलोकादिदुष्टाशंसया वर्जितं तज्जन्येच्छाऽविषयीभूतं, शुद्धं ज्ञान-संयमोपबृंहितं, तपो ज्ञानयोग उच्यते । तदुक्तगुणोपपन्नं तपोऽभ्यासातिशयात् क्षायोपशमिकभावपूर्वकदृढयत्नात्, विमुक्तेः प्रसाधकं मोक्षस्य जनकमुक्तम् ; दुष्टाशंसापूकस्य तपसो निषिद्धत्वात्, ""नो इहलोगद्वाए तवमहिट्ठिज्जा, नो परलोगद्वाए तवमहिद्विज्जा" इति वचनात् ; केवलस्य च तस्य विशिष्टनिर्जरां प्रत्यजनकत्वात्, समुदितानामेव त्रयाणां प्रकाश व्यवदाना-नाश्रवरूपव्यापारैर्निःशेषकर्माभावोपपत्तेः, अभ्यासस्य च स्वजनकभाववृद्धिहेतुत्वेन ततोऽशुभवासनाक्षयाद्विलम्बेन फलोदयाच्च । अङ्गीकृतं च पातञ्जलैरप्येतत् -" अभ्यास- वैराग्याभ्यां तन्निरोधः" (पात० १, १२) ताः प्रमाणविपर्यय - विकल्प-निद्रा-स्मृतिलक्षणाः पञ्च वृत्तयः । तत्र प्रत्यक्षादीनि प्रमाणानि । विपर्ययो मिथ्याज्ञानम् । तदविद्या- ऽस्मिता -राग-द्वेषाऽभिनिवेशभेदेन पञ्चविधम् । “अनित्याऽशुचि-दुःखा-नात्मसु नित्य- शुचि-सुखा-ssत्मख्यातिरविद्या" (पात०२, ५) “हंग- दर्शनशक्त्योरेकात्मतेवाऽस्मिता” (पात०२, ६) “सुखानुशयी रागः”
tional
१ नो इहलोकार्थतया तपोऽधितिष्ठेत्, नो परलोकार्थतया तपोऽधितिष्ठेत् । २ तपसः । ३ क. 'त्यप्रत्यलत्वा' । ४ ख ग घ 'नाऽशु' । ५ दृक्शक्तिः पुरुषः, दर्शनशक्तिश्च बुद्धिस्तयोरित्यर्थः । ६ सुखानुभवात् पश्चाच्चेत से शेते तच्छीलश्चितवृत्तिविशेषः, अभिलाष इति यावत् ।
For Private & Personal Use Only
सटीकः ।
॥ १० ॥
www.jainelibrary.org