________________
S
न चाऽऽयसस्य लोहनिगडादेः, हेममयस्य च कनकशृङ्खलादेः, बन्धस्य फले कश्चिदनुकूलत्व-प्रतिकूलत्वकृतः बलवत्वाऽबलवत्वकृतो वा विशेषोऽस्ति, पारतन्त्र्यस्य खेच्छानिरोधदुःखस्याऽविशेषत उभयत्र विशेषाभावात् ॥ १८ ॥
उपसंहरबाहतस्मादधर्मवत्त्याज्यो धर्मोऽप्येवं मुमुक्षुभिः। धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः॥१९॥
तस्मात् संसारपरिभ्रमणजन्यबलवदुःखानुबन्धित्वात् , अधर्मवद् धर्मोऽपि त्याज्यः, मुमुक्षुभिर्मोक्षेच्छावद्भिः, तदितरेषां संसारसुखाविरक्तत्वेन विवेकाभावात् । बलवदुःखानुबन्धित्वेन त्याज्यत्वमुक्त्वा, इष्टसाधनीभूताभावप्रतियोगित्वेनापि त्याज्यत्वमाह-मुनिभिः परिणतप्रवचनैः, धर्मा-धर्मयोरुभयोः क्षयाद् मुक्तिर्यतो वर्णिता । अतोऽप्यधर्मवत् त्याज्यो धर्म इति भावः ॥ १९ ॥ उच्यत एवमेवैतत् किन्तु धर्मो द्विधा मतः।संज्ञानयोग एवैकस्तथान्यः पुप्यलक्षणः॥२०॥
उच्यते अत्र समाधानं क्रियते- एतत् पूर्वोक्तं धर्मस्य संसारहेतुत्वं मोक्षविरोधित्वं च, एवमेवाऽविपतिपत्तिविषय एव । ननु कथमेकस्य मोक्षजनकत्वं, तत्प्रतिबन्धकत्वं च, विरोधात् ?; अत आह-किन्तु धर्मो धर्मपदवाच्यः, द्विधा द्विप्रकार उक्तः । एवं च धर्मपदमक्षादिपदवद् नानार्थकम् , तथा च मोक्षजनक प्रतिवन्धकयोर्विभेदाद न विरोधः, इत्यनुपदं ग्रन्थकृता स्पष्टाक्षरैरेव वक्ष्यते । द्वैविध्यमेव स्पष्टयति- एको धर्मः, संज्ञानयोगः- समीचीनमहत्मवचनानुसारि ज्ञानं गुरुपारतन्यनिमित्तं संवेदनं
Sclose
en Education inte
For Private
Personel Use Only