________________
HIBE
नियमस्य । स्यादेतद् मा भूत पर्यायत्वमेषाम् , अर्थाभेदस्य कल्पितत्वात् । सामान्य-विशेषवाचित्वव्यवस्था तु विना सामान्य विशेषाभ्यां कथमेषामिति । मैवम् , बह-ऽल्पविषयतत्संकेतानुसारतः सामान्य-विशेषाचित्वाविरोधात् , वृक्ष धवादिशब्दा. नामवृक्षा-ऽधवादिव्यवच्छेदमात्रानुस्यूतार्थप्रतिविम्बजनकत्वात् । यदपि 'विनाऽपोह्यस्याधारस्य वा भेदं नापोहभेदः, तद्भेदश्च न वस्तुभूतं सामान्यमन्तरेण, इति किमपोहेन ?' इति; तदपि न, कल्पन यैव व्यावृत्तीनां भेदात् , तत्रापोह्यादिभेदस्यातन्त्रत्वात् । परमार्थतस्त्वनादिविकल्पवासना(जन्यविविक्तवस्तुसंकेतादेनिमित्ताद् विकल्पानामेव भेदाभ्युपगमात् । तदुक्तम्
"ताश्च व्यावृत्तयोऽर्थानां कल्पनाशिल्पिनिर्मिताः । नापोह्या-ऽऽधारभेदेन भियन्ते परमार्थतः ॥१॥ तासां हि बाह्यरूपत्वं कल्पितं न तु वास्तवम् । भेदा-ऽभेदौ च तत्वेन वस्तुन्येव व्यवस्थितौ ॥ २ ॥ खबीजानेकविश्लिष्टवस्तुसंकेतशक्तितः । विकल्पास्तु विभिद्यन्ते तद्रूपाध्यवसायिनः ॥ ३॥ नैकात्मतां प्रपद्यन्ते न भिद्यन्ते च खण्डशः । स्खलक्षणात्मका अर्था विकल्पः प्लवते त्वसौ ॥४॥ संसृज्यन्ते न भियन्ते स्वतोऽर्थाः पारमार्थिकाः । रूपमैकमने वा तेषु बुद्धरुपप्लवः ॥ ५॥" इति ।।
यदपि 'अपोहस्य प्रतिपाद्यत्वे शब्द-लिङ्गयोः प्रामाण्यं न स्यात् । प्रतिपाद्याव्यभिचारित्वेनैव हि तयोः प्रामाण्यम् , प्रतिपाद्यश्चापोहो निःस्वभावः, इति क तयोरव्यभिचारित्वम् ?' इति तदपि न, वस्तुभूतसामान्याभावेऽपि विजातीयव्यावृत्तस्खलक्षणमात्रेणान्वयोपपत्तेः, अविवक्षितभेदस्य स्खलक्षणस्यैव सामान्यलक्षणत्वात् । यदपि 'यथा स्वलक्षणादिषु समयासंभवाद् न शब्दार्थत्वं तथाऽपोहेऽपि; अर्थ निश्चित्य हि समयः कर्तुं शक्यते न चापोहः केनचिदिन्द्रियैर्व्यवसीयते, व्यवहारपूर्व
www.jainelibrary.org
Jain Education in
For Private & Personal Use Only