SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ Postale सटीकः। स्तबकः। शाखबातो भावान्तरात्मको भावो येन सर्वो व्यवस्थितः । तत्राचादिनिवृत्तात्मा भावः क इति कथ्यताम् ॥२॥ समुचयः। नेष्टोऽसाधारणस्तावद् विशेषो निर्विकल्पनात् । तथाच शाबलेयादेरसामान्यप्रसङ्गतः ।। ३ ।। ॥४०२॥ तस्मात् सर्वेषु यद् रूपं प्रत्येकपरिनिष्ठितम् । गोबुद्धिस्तन्निमित्ता स्याद् गोत्वादन्यच्च नास्ति तत् ॥ ४॥" इति तदपि प्रत्युक्तम् , बाह्यरूपतयाऽध्यस्तस्य बुद्धयाकारस्यैव सर्वत्र शावलेयादौ 'गौौः' इति समानरूपतयाऽवभासनात , तत्रैव भ्रान्तप्रतिपत्तृवशेन सामान्यव्यवहारात , मुख्यसामान्यसामथ्र्यदर्शनेऽन्तरुपप्लवात् , द्विचन्द्रज्ञानवत् तत्र सामान्यभ्रान्त्युपपत्तेः, बुद्धरव्यतिरिक्तत्वेनार्थान्तरानुगमाभावात् परमार्थतोऽसामान्यरूपवचेन तस्यापोहवाच्यतायां सिद्धसाधनानवकाशात । यदपि 'भ्रान्तस्य शब्दार्थत्वे वाहार्थानपेक्षत्वं स्यात्' इत्युच्यते तदपि न, पारम्पर्येण वस्तुपतिवद्धस्य भ्रान्तस्यापि विकल्पस्य माणिप्रभायां मणिबुद्धिवद् बाह्यार्थानपेक्षवासिद्धेः । यदपि 'अपोहस्य निःस्वभावत्रात , अरूपस्य परसरतो भेदाभावात् , वृक्ष-रूपादिशब्दवदाभिन्नसामान्यवचनानां गवादिपदानाम् , विशेषवचनानां च शाब लेयादिपदानां पर्यायतापत्तिः' इति; तदपि न, भेदवदभेदस्याप्यभावेनाभिन्नार्थाभावे तत्र पर्यायत्वाऽऽसञ्जनस्य कर्तुमशक्यत्वात् , निर्बीजकल्पनायावाव्यवKo स्थितत्वात् । तदुक्तम् ,--- 'रूपाभावेऽपि चैकत्वं कल्पनानिर्मितं यथा । विभेदोऽपि तथैवेति कुनः पर्यायता ततः ? ॥१॥ भावतस्तु न पर्याया न पर्यायस्य वाचकाः । न ह्येकं वाच्यमेतेषामनेकं वेति वर्णितम् ॥ २॥” इति । न चैकनानुगामिना विना बहुप्वका श्रुतिन नियोक्तुं शक्येति वक्तव्यम् , इच्छामात्रप्रतिवद्धत्वात् शब्दानामर्थप्रति 1४२॥ nene For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy