________________
एवायमन्यापोहोऽवगम्यते, तत्रार्थप्रतिविम्बात्माऽपोहः शब्दजन्यत्वात् साक्षात् शब्दवाच्यः। शब्दा-ऽर्थयोः कार्य-कारणभाव एव च वाच्यवाचक(भाव):; तदुक्तम् , “विकल्पयोनयः शब्दाः" इत्यादि । अपोहद्वयं च बाह्याशंध्यवसायिविकल्पप्रतिबिम्बोत्पादोत्तरं सामर्थ्यगम्यत्वादुपचारात् शब्दवाच्यमुच्यते तदुक्तम्
"न तदात्मा परात्मेति संबन्धे सति वस्तुभिः । व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥ १ ॥” इति । एतेन यदुक्तं कुमारिलेन"नन्वन्यापोह कृच्छब्दो युष्मत्पक्षे तु वर्णितः। निषेधमात्रतैवैह प्रतिभासेऽवगम्यते ॥ १॥
किन्तु गौगंवयो हस्ती वृक्ष इत्यादिशब्दतः । विधिरूपावसेये न मतिः शाब्दी प्रवर्तते ।। २ ॥ . यदि गौरित्ययं शब्दः समर्थोऽन्यनिवर्तने । जनको गवि गोबुद्धेम॒ग्यतामपरो ध्वनिः ॥३॥ ननु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । अपवाद-विधिज्ञानं फलमेकस्य वः कथम् ? ॥ ४ ॥
मागगौरिति विज्ञानं गोशब्दश्रावणे भवेत् । येनागोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः॥५॥" इति; तदपास्तम् , मागर्थप्रतिविम्वरूपविध्यर्थस्यैवावसायात; अनन्तरं च सामर्थ्यतो निषेधपतीतिः, एकस्यापि रात्रिभोजननिषेधार्थापकदिवाभोजनवत् क्रमिकविधि-निषेधज्ञानद्वयफलकत्वाविरोधात् । यदपि तेनैवोक्तम्
"अगोनिवृत्तिः सामान्य वाच्यं यत्परिकल्पितम् । गोत्ववस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥१॥ , “विकल्याः शब्दयोनयः, कार्यकारणता तेषां नार्थ शब्दाः श्पृशन्त्यपि" इति शिष्टं पादत्रयम् ।
Jain Education
nationa
For Private & Personel Use Only
www.jainelibrary.org