________________
शास्रवातो समुच्चयः ।
॥४०१ ॥
एतदेव व्यतिरेकनिरासेन द्रढयति-
अभ्रान्तजातिवादे तु न दण्डाद्दण्डिवद्गतिः । तद्वत्युभयसांकर्ये न भेदादोऽपि तादृशम् ॥८॥
अभ्रान्तजातिवादे तु अकल्पितजातिवाच्यत्वपक्षे तु दण्डात् दण्डाभिधानात् दण्डिवत् - दण्डिनीव, तद्वतिजातिमति, गतिः परिच्छित्तिः, न स्यात् । न च प्रथमं जातिरवसीयते, ततस्तद्वाँलक्ष्यते, तेन विना तस्या अयोगात्, इति लक्षणया तद्वतो गतिरिति वाच्यम्; क्रमवत् प्रत्ययादर्शनात् । जाति व्यक्त्योः संकीर्णप्रतिपच्युपगमे दोषमाह - उभयसांक- जाति-व्यक्तिसांकर्ये त्विष्यमाणे, वोsपि - युष्माकमपि भेदात्- अध्यवसीयमाना भेदविरोधात् तादृशम् - अभ्रान्तम्, न तद्वत्वम्' इति योगः |
ननु भ्रान्ततद्वत्वस्य वाच्यत्वे कथमपोहः शब्दार्थः ? इति चेत् । सत्यम्, द्विविधो यस्माकमपोह:- पर्युदासलक्षणः, प्रसज्यप्रतिषेधलक्षणश्च । आयो द्विविधः - अर्थेऽनुगतैकरूपत्वेनाध्यवसितो बुद्धिप्रतिभासो बुद्ध्यात्मा, विजातीयव्यावृत्तस्वलक्षणार्थात्मा च । तत्र यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यलक्षणमेकमर्थम्, ज्वरादिशमनं कार्यमुपजनयन्ति, तथा शाबलेयादयोऽप्यर्थाः सत्यपि भेदेऽधिकृतकाकारपरामर्शमन्तरेणापि वस्तुभूतं सामान्यम्, तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानम्, तत्र यदर्थाकारतयार्थऽप्रतिबिम्बकं ज्ञानादभिन्नमाभाति तत्रान्यापोह इति व्यपदेशः, अन्यव्यावृत्तवस्तुप्राप्तिहेतुत्वादिनोपचारात् | अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तद्वयपदेशभाक् । प्रसज्यप्रतिषेधस्तु 'गौरगौर्न भवत्ययम्' इति विशिष्ट
Jain Education International
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ११ ॥
॥४०१॥
www.jainelibrary.org