________________
तदिदमाहवाच्य इत्थमपोहस्तु न जातिः पारमार्थिकी। तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थिते॥६॥
इत्थं- ताचिकत्वाभावे, अपोहस्तु- अपोह एव, वाच्यः- शब्दप्रतिपाद्यः । अबधारणकलमाह- न जातिः पार| मार्थिकी- अकल्पिता गोत्वादिरूपा वाच्या । कुतः ? इत्याह- तदयोगात- गोत्वादि जातेमैदा-ऽभेदादिविकलेनाघटमान
त्वात् , तथा, विना भेदं-खभावत एव गोत्वाधारस्वभावलक्षणं गोव्यक्तीनाम् , तदन्येभ्यः- अश्वादिव्यक्तिविशेषेभ्यः, तथा| स्थितेः- भिन्नत्वाव्यवस्थितः, गोत्वस्य व्यापकत्वात् , तत्वेऽपि तत्र गोव्यक्त्याधेयत्वस्य स्वभावभेदनियम्यत्वादिति | भावः ॥६॥
. स्वभावभेदसच्चे दोषमाहसति चास्मिन् किमन्येन शब्दातद्वत्प्रतीतितःातदभावेनतहत्त्वं तद्भ्रान्तत्वात्तथा न किम् ?
सति चास्मिन्- स्वभावभेदे, किमन्येन-गोत्वादिना कल्पितेन ? शब्दात- गवादिशब्दात्, तद्वत्पतीतितः- विशिष्टभेदवद्वयक्तिमतीतेः । पराभिप्रायमाह- तदभावे- गोस्वाभावे, न तद्वचम्- न गोत्वाधार स्वभावभेदवचम् , तत एव त - | दोपपत्तेः । अवोत्तरम् - तद्भ्रान्तत्वात- तस्य भेदस्य भ्रान्तत्वात कल्पितत्वात , तथा न किम् ?-तथाध्यवसायवशेन कल्पितं | तद्वत्वं न कथम् ? । वास्तवे ह्यस्मिन्नयं दोषो न पुनभ्रान्त इत्यभिप्रायः ॥ ७॥
For Private & Personal Use Only
TATww.jainelibrary.org
Jain Education inte