SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ Doctor शास्त्रवातासमुच्चयः। ॥४०॥ सटीकः। स्तबकः । ॥ ११ ॥ क्याध्यवसानम्' इत्यन्ये । एतदपि न, असताऽर्थनकीकरणायोगात्, योगे वा बुद्धिशब्दार्थपक्षप्रवेशात् । 'बुद्धिरूपमेव बाह्यविषयं तथा, गृह्यमाणबुद्धित्वेन वा गृह्यमाणं शब्दार्थः' इति पक्षस्तु निरस्तपाय एव, शाब्दप्रत्ययेनाध्यवसीयमानस्य शब्दार्थत्वायोगाच्च । परे त्वाहु:- 'अभ्यासात् प्रतिभाहेतुः शब्दो न तु बाह्यार्थप्रत्यायकः, यथैव ह्यङ्कशादिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति तथा शब्दार्थसंबन्धसंमता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति' इति । अत्रापि प्रतिभा यदि परमार्थतो बाह्यार्थविषया तदैकत्र विरुद्धसमयग्राहिणां विचित्रा प्रतिभा न स्यात् , एकस्यानेकस्व. भावासंभवात् । यदि च निर्विषया, कथं तर्हि तदर्थे प्रवृत्ति-प्रतिपत्ती । अनर्थेऽध्यवसायेन भ्रान्त्या चेत् । तर्हि भ्रान्तः शब्दार्थः प्राप्तः, तत्र च बीजं भावानां परस्परतो भेद एवेति पक्ष एवैष न इति । अन्ये तु- 'अर्थविवक्षां शब्दोऽनुमापयति, यदुक्तम्"अनुमानं विवक्षायाः शब्दादन्यद् न विद्यते" इति । अत्रापि विवक्षाया न पारमार्थिकशब्दार्थविषयत्वम्, अन्वय्यायोगात् । नापि शब्दस्य तत्पतिपादकत्वम् । न च विवक्षायाः प्रतिपाद्यत्वे बहिरर्थे प्रवृत्तिः सुघटा, अमेरितत्वात् । न च विवक्षापरिवर्तिनो बाह्यस्य च सारूप्यादप्रेरितेऽपि तत्र ततः प्रवृत्तिः, यमलकवदिति वाच्यम्, प्रेरितेऽपि तत्वसक्त्या नियमापत्तेः । स्वप्रतिभासानुभवेऽपि बाह्यार्थशक्तिभ्रमात् प्रवृत्त्युपगमे च पक्ष एव नः, धूमस्याग्नेरिव शब्दस्यातात्त्विकार्थप्रतिपादनच्छानुमा. पकत्वात् , तस्यानुमानानतिरेकात् । तदाहुः- 'वक्तुरभिप्रायं तु सूचयेयुः' इति । एतेन वैभाषिकोऽपि शब्दविषयं नामाख्यमर्थचिह्नरूपं विप्रयुक्तं संस्कारामिच्छन् निरस्तः, तस्याप्यन्वयायोगात , बाह्य चाप्रवृत्तेः, सारूप्यात् प्रवृत्तावप्यनियमापत्तेः। तदेवम् 'अकृतसमयत्वात्' इति हेतो सिद्धता, नाप्यनैकान्तिकत्व-विरुद्धत्वे । इति सिद्धम्- 'अपोहकृत् शब्दः' इति ॥५॥ |॥४०॥ Jain Education international For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy