SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ न्येषाम् , 'द्रव्यम्' इति च परेषाम् , 'उभयम्' इति चापरेषां मतमपास्तम् , जातरयोगात् , व्यक्त्यादीनां च खलक्षणात्मकत्वात् , तत्पक्षभाविदोषानतिवृत्तेः। बुद्धयाकारेऽपि न समयः संभवति, तस्य व्यवहारकालाननुयायित्वात् , बहिरर्थज्ञापनाभिमानिभिरेव शब्दप्रयोगाच्च । 'अस्त्यर्थमात्रमेवापूर्वदेवतादिपदानामिव गवादिपदानामर्थः, तत्राकारविशेषपरिग्रहस्तु केषाश्चित सिद्धान्तबलात् , न तु शब्दात्' इत्येके । तद्न, शब्दभेदव्यवहारविलोपाद् विषाणादिविशेषानुपरागेणास्त्यर्थवाचकवे च गोत्वविशिष्टस्य वाच्यत्वमिष्टम् , तत्र चोक्तप्राय एव दोषः । अपरे तु 'तपो-जाति-श्रुतादिब्राह्मणादिशब्दैः समुदायो विना विकल्प-समुच्चयाभ्यां | सामस्त्येनाभिधीयते, यथा वनादिशब्दैर्धवादयः । 'वनम्' इत्युक्ते हि 'धवो वा खदिरो वा' इति न विकल्पेन धीः न वाधवश्च खदिरश्च' इति समुच्चयेन, अपि तु सामस्त्येन प्रनीयन्ते धवादयः, तथा 'ब्राह्मणः' इत्युक्तेऽपि 'तपो वा जातिर्वा श्रुतं वा' तपश्च जातिश्च श्रुतं च' इति वा न धीः, अपि तु साकल्येन संबन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयः संहताः प्रतीयन्ते' इत्याहुः। तदपि न, वनादिपदेनापि परस्परसंनिहितबहुवृक्षत्वादिप्रकारकविकल्पबुद्धथुपहृतार्थस्यैवाभिधानात , समुदायस्य प्रत्येकानतिरिक्तत्वेनान्वयितयानभिधेयत्वात् । परे तु 'द्रव्यत्वादिनिर्धारितस्वरूपैर्यः संबन्धो द्रव्यादीनां स शब्दार्थः । स च संबन्धिनां शब्दार्थत्वेनासत्यत्वादसत्य इत्युच्यते । यद्वा, तपः-श्रुतादीनां मेचकवर्णवदैक्येनावमासनादेषामेव परस्परमसत्यः संसर्गस्तथा' इत्याहुः । अन्ये तु-'असत्यवलयाङ्गुलीयकायुपाधिकं सत्यं सुवर्णादिसामान्यमाभिधेयम्' इत्याहुः । मतद्वयमिदमसत् , संयोगादिसंबन्धस्य सामान्यस्य च निरासात् , असत्याभिधेयत्वध्रौव्याच्च । 'शब्द एवाभिजल्पत्वमागतः शब्दार्थः, नच्च शब्दस्यार्थेन सहै १ ख. ग, घ. 'श्रद्धान्त'। . Jain Educat i onal For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy