________________
शास्त्रवार्ता- अतीताजातयोऽपि न च स्यादनृतार्थता।वाचः कस्यचिदित्येषा बौद्धार्थविषया मता ॥५॥ सटीकः। समुच्चयः
स्तबकः। __ अतीता-जातयोः- विनष्टा-ऽनुत्पन्नयोर्वाप्यर्थयोरसत्त्वेन, न स्यात् प्रवृत्तिः । तथा, न च-नैव भवेत् , अनृतार्थता॥३९९॥
॥ ११ ॥ असत्यार्थता, वाचः, कस्यचित्-प्रतारकादेः, अन्यथा ‘परमार्थंकतानत्वायोगात्' इति-अस्मादुक्तदोषात् , एषा-वाक् , बौद्धार्थविषया- बुद्धिक्लुप्ताथविषया, मता- इष्टा शब्दार्थविद्भिः सौगतैः । एतेन यदुक्तमुद्योतकरण- 'अवाचकत्वे शब्दानां प्रतिज्ञाहेतुव्याघातः' इति, तत् प्रत्युक्तम् । न ह्यागोपालप्रतीतः शब्दार्थो निषिध्यते, किन्तु तत्र सांस्तत्वमभ्युपगम्य तात्त्विकत्वं निषिध्यत इति । तनिषेधश्च स्वलक्षणस्य व्यवहारकालाननुयायित्वेनाकृतसमयत्वात् तत्र शब्दस्य । अयमेवाभिप्रायः 'न जातिशब्दो भेदानां वाचकः, आनन्त्यात्' इति वदत आचार्यदिग्नागस्य । तेन यदुक्तमुद्योतकरेण- 'यदि शब्दं पक्षयासि तदानन्तस्य वस्तुधर्मत्वाद् व्यधिकरणो हेतुः अथ भेदा एव पक्षीक्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्ति, इत्यहेतुरानन्त्यम्' इति, तद् निरस्तम् । न च जातिविशेषणभेदेषु समयसंभवादयमदोषः, जातेनिरस्तत्वात् , अनन्तभेदविषयनिःशेषव्यवहारोपलम्भस्य कस्यचिदसंभवेनादृष्टेषु भेदेषु समयासंभवाच्च । विकल्पबुद्ध्याहृतेषु तत्पतिपत्त्यभ्युपगमे च विकल्पसमारोपितार्थविषय | एव संकेतः प्राप्तः । अथ समयक्रियाकाले क्षणान्तरसंनिधानात् कथं न स्वलक्षणे समयकरणसंभवः ? इति चेत् । न, तस्याभोगाविषयीकृतत्वेनाश्वाभोगाविषयीकृते संनिहिते गवादावश्वपदस्येव समयस्य दुर्ग्रहत्वात् । सादृश्येनैक्यमध्यवस्य समयग्रहे च तस्यास्वलक्षणत्वेन स्वलक्षणस्य वाच्यत्वासिद्धः। एतेन व्यक्त्या-ऽऽकृति-जातयः पदार्थः' इति केषाश्चिद् मतम् , 'जातिरेव पदार्थः' इत्य
PRASimpaleadacs
Jain Education in
For Private & Personal Use Only
KOdww.jainelibrary.org