SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ अर्थासंनिधिभावेन तद्दृष्टावन्यथोक्तितः। अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम्॥३॥ अर्थासंनिधिभावन- घटाद्यसंनिधावपि घटादिशब्दोत्पत्या व्यतिरेकव्यभिचारात , तदृष्टी-देवदत्ताद्यर्थदृष्टी, अन्यथोक्तितः- गोत्रस्खलनादिदशायां यज्ञदत्तादिशब्देनोक्तितो देवदत्तादिशब्दानुत्पत्याऽन्वयव्यभिचारात् , तथा, अन्यस्मिन् घटादौ पटादिशब्दस्य, अभावे चात्यन्तासति वान्ध्येयादौ वान्ध्येयादिशब्दस्य नियोगात् संकेतकरणात् , यद् यतो नोत्पत्तिस्वभावं तस्य तत्र नियोगवैयर्थ्यात् , न तदुत्पत्तिरपि- अर्थात् शब्दोत्पत्तिरपि, अलं शोभते ॥ ३ ॥ शब्दानां वास्तवार्थत्वे दोषान्तरमाहपरमार्थकतानत्वे शब्दानामनिबन्धना । न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥४॥ परमार्थंकतानत्वे- वास्तवैकविषयत्वेऽभ्युपगम्यमाने, शब्दानामनिबन्धना- प्रवृत्तिनिमित्तविकला, दर्शनान्तरभेदिषुदर्शनान्तरप्रसिद्धासद्भावेषु, अर्थेषु- प्रधाने-श्वरादिषु, प्रवृत्तिः शक्तिः, न स्यात् । तथा च प्रधानादिपदानामप्रत्यायकत्वं स्यात् । अनिष्टं चैतत् । न च सखण्डप्रधानत्वादिविशिष्टे शक्तिभ्रमादुपपत्तिः, गवादिपदानामिव प्रधानादिपदानामखण्डधर्मविशिष्ट एव शक्त्यनुभवादिति भावः ॥४॥ अपिच, Jain Education o For Private & Personel Use Only Plwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy