SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ PROGod शास्त्रवाता जान समुच्चयः। ॥३९८॥ अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः। शब्दा-ऽर्थयोन संबन्धो वस्तुस्थित्येह विद्यते॥॥ सटीकः। अन्ये तु-बौद्धाः, अभिदधत्येवं- वक्ष्यमाणपकारम् । किम्भूताः? इत्याह- युक्तिमार्गकृतश्रमाः- अनुभवाद्युत्सृज्य स्तबकः। जातियुक्तिमात्रनिष्ठा इत्युपहासः । एवमर्थमाह- शब्दा-ऽर्थयोः- लोके प्रसिद्धयोर्नाम-नामवतोः, न संबन्धः कश्चिद् वस्तु ॥११॥ स्थित्या- परमार्थेन, इह-जगति, विद्यते, संवन्धान्तरनिषेधात् , तादात्म्य-तदुत्पत्त्योरयोगाच ॥१॥ तत्र तादात्म्यं निरस्यन्नाहन तादात्म्यं द्वयाभावप्रसङ्गाद् बुद्धिभेदतः। शस्त्रायुक्तौ मुखच्छेदादिसङ्गात् समयस्थितेना॥ न तादात्म्यं 'शब्दाऽर्थयोः' इत्यनुकृष्य योज्यते । कुतः ? इत्याह-द्वयाभावमसङ्गात् शब्दा-ऽर्थयोरेकत्वेन भेदनिबन्धनद्वित्वाभावात् , स्वखरूपवत् ; तथा, बुद्धिभेदतः- घटादिशब्द-घटाद्यर्थयोः श्रावण-चाक्षुषादिबुद्धिभेदात् , भेदसिद्धावभेदासिद्धेः, घट-पवनादिवत् , तथा, शस्त्रायुक्तौ- करवाला-ऽनलाद्यभिधाने, मुखच्छेदादिसङ्गात्- बदनच्छेद-दाहादिप्रसङ्गात् , करवाला-ऽनलादिनिवेशवत् । तथा, समयस्थितेः- संकेतव्यवस्थानात् । न ह्यगृहीतसमयः शब्दोऽर्थ प्रत्याययति, घटपदशक्तिपरिज्ञानविकलानां पामराणां, विपरीतव्युत्पन्नानां च घटपदश्रवणमात्राद् घटार्थप्रत्ययप्रसङ्गात्, किन्तु यः शब्दो यत्र गृहीत. संकेतः स तमेवार्थ प्रत्याययतीति । न चेदमर्थतादात्म्ये युज्यते । न द्यर्थ एव समयव्यवस्थानं दृष्टमिष्टं वा ॥२॥ तदुत्पत्तिमपि निराकुरुते | ॥३९८॥ JainEducation For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy