________________
PROGod
शास्त्रवाता
जान समुच्चयः। ॥३९८॥
अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः। शब्दा-ऽर्थयोन संबन्धो वस्तुस्थित्येह विद्यते॥॥ सटीकः। अन्ये तु-बौद्धाः, अभिदधत्येवं- वक्ष्यमाणपकारम् । किम्भूताः? इत्याह- युक्तिमार्गकृतश्रमाः- अनुभवाद्युत्सृज्य
स्तबकः। जातियुक्तिमात्रनिष्ठा इत्युपहासः । एवमर्थमाह- शब्दा-ऽर्थयोः- लोके प्रसिद्धयोर्नाम-नामवतोः, न संबन्धः कश्चिद् वस्तु
॥११॥ स्थित्या- परमार्थेन, इह-जगति, विद्यते, संवन्धान्तरनिषेधात् , तादात्म्य-तदुत्पत्त्योरयोगाच ॥१॥
तत्र तादात्म्यं निरस्यन्नाहन तादात्म्यं द्वयाभावप्रसङ्गाद् बुद्धिभेदतः। शस्त्रायुक्तौ मुखच्छेदादिसङ्गात् समयस्थितेना॥
न तादात्म्यं 'शब्दाऽर्थयोः' इत्यनुकृष्य योज्यते । कुतः ? इत्याह-द्वयाभावमसङ्गात् शब्दा-ऽर्थयोरेकत्वेन भेदनिबन्धनद्वित्वाभावात् , स्वखरूपवत् ; तथा, बुद्धिभेदतः- घटादिशब्द-घटाद्यर्थयोः श्रावण-चाक्षुषादिबुद्धिभेदात् , भेदसिद्धावभेदासिद्धेः, घट-पवनादिवत् , तथा, शस्त्रायुक्तौ- करवाला-ऽनलाद्यभिधाने, मुखच्छेदादिसङ्गात्- बदनच्छेद-दाहादिप्रसङ्गात् , करवाला-ऽनलादिनिवेशवत् । तथा, समयस्थितेः- संकेतव्यवस्थानात् । न ह्यगृहीतसमयः शब्दोऽर्थ प्रत्याययति, घटपदशक्तिपरिज्ञानविकलानां पामराणां, विपरीतव्युत्पन्नानां च घटपदश्रवणमात्राद् घटार्थप्रत्ययप्रसङ्गात्, किन्तु यः शब्दो यत्र गृहीत. संकेतः स तमेवार्थ प्रत्याययतीति । न चेदमर्थतादात्म्ये युज्यते । न द्यर्थ एव समयव्यवस्थानं दृष्टमिष्टं वा ॥२॥ तदुत्पत्तिमपि निराकुरुते
| ॥३९८॥
JainEducation
For Private
Personel Use Only