________________
शास्त्रवार्ता
स्तरकः। ॥९ ॥
॥३४६॥
शृङ्गग्राहिकया तद्बोधनाय शास्त्रं व्याप्रियते । न चैवमत्र शास्त्रवैयर्थ्यम् , दिग्दर्शकत्वात् । इति सिद्धमस्य शास्त्रातिक्रान्तविषयत्वम् । स चायं द्विविधः- धर्मसंन्यासः, योगसंन्यासश्च । तत्र धर्मसंन्यासस्ताविकः क्षपकश्रेणियोगिनो द्वितीयापूर्वकरणे भवति, क्षायोपशमिकानां क्षान्त्यादिधर्माणां तदा निवृत्तेः, क्षायिकाणामेव विशुद्धानां प्रादुर्भावात् । अतात्विकस्तु प्रवज्याकालेअपि भवति, सावधप्रवृत्तिलक्षणधर्मन्यासादिति समयविदः । द्वितीयस्त्वायोज्यकरणेन योगनिरोधादूर्व शैलेश्यां कायादिकर्मरूपाणां योगानां न्यासात् । अयं खल्वयोगोऽपि मोक्षयोजनात् परमो योग उच्यत इति । तदाहुः
"कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादिनः । विकल्पे धर्मयोगो यः स इच्छायोग उच्यते ॥१॥ शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसा विकलस्तथा ॥ २ ॥ शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद् विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ ३ ॥ सिङ्ख्याख्यपदसंमाप्तिहेतु-भेदा न तत्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः॥४॥ सर्वथा तत्परिच्छेदात् साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥५॥ न चैतदेवं यत्तस्मात् प्रातिभज्ञानसंगतः । सामर्थ्य योगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् ॥ ६ ॥ द्विधाऽयं धर्मसंन्यास-योगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ ७ ॥ १क. 'च्यते त'। २ ख.ग.प.च. 'स्याज्ञा'।
॥३४॥
Jain Education Internal
For Private & Personel Use Only
www.jainelibrary.org