SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ चारित्रयोरभेदाश्रयणात् । ज्ञानावस्थारूपस्यैव स्थैर्याख्यचारित्रपरिणामस्याक्षयत्वोपपादनात् । एतदुपपादनार्थमेव शुद्धनयाभिप्रायकनोचरित्रित्व-नोअचरित्रित्ववचनानुसरणादिति गम्भीरधिया परिभावनीयम् ।। २६ ।। फलितमाहज्ञानयोगादतो मुक्तिरिति सम्यग्व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत्॥ ____ अत:- उक्तन्यायात् , 'ज्ञानयोगाद् मुक्तिः' इति- एतदुपन्यस्तम् , सम्यक्-प्रमाणाविरोधेन, व्यवस्थितम् । ननु कथं सम्यगियं व्यवस्था,"ज्ञान-क्रियाभ्यां मुक्तिः" इति तन्त्राव्यवस्थानात् । अत आह-तन्त्रानुरोधेन च- वेदान्तवादिमतानुरोधेन च, इत्थम्- उक्तरीत्या, गीतम्- उक्तम् , न दोषकृत्-न स्वतन्त्रक्षतिदोषावहम् , अनेकनयमये स्वतन्त्रे यथाप्रयोजनमेकनयप्राधान्यादरस्याप्यदुष्टत्वादिति भावः। योगाचार्यमतानुरोधे पुनरिच्छा-शास्त्र-सामर्थ्य योगा इष्यन्ते । तत्र ज्ञातागमस्यापि प्रमादिनः कालादिवैकल्येन चैत्यवन्दनाद्यनुष्ठानमिच्छाप्राधान्यादिच्छायोगः। यथाशक्ति तीव्रश्रद्धया कालाद्यवैकल्येन तदनुष्ठानं च यथाशाखमाचारात् शास्त्रयागः। शास्त्रदर्शितोपाये शास्त्रदर्शितदिशाऽधिकतरवीर्यमुल्लासयतो मार्गानुसारिपकृष्टोहरूपस्वसंवेदनेन जाताधिकविवेकस्यानुष्ठानं सामर्थ्ययोगः । न हि शास्त्रादेव मोक्षोपायः कात्स्न्येनावगम्यते, तीव्ररुचेः श्रवणमात्रादेव मोक्षोपायलाभे योगाभ्यासवैयर्थ्यप्रसङ्गात् ; उपायविशेषलाभार्थमेव तत्परिशीलनस्य सप्रयोजनत्वात् । न चायमज्ञातो लभ्यते । न च प्रत्यात्म Faced Jain Education Intel For Private 3 Personal Use Only PKTw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy