________________
शाखवातासमुच्चयः ॥३४५॥
सटीकः। स्तवकः। ॥९ ॥
RAI
पारभेदनयेनोक्तव्यवहाराविरोधात । 'नो चारित्री' इत्यत्र क्रियारूपदेशस्यैव निषेधः' इत्यन्ये । अपारभविकत्वमपि तस्य क्रियारूपस्यैवोक्तम् , 'मोक्षो न भवः' इत्यभिप्रायाद् वा, मोक्षे तत्कृतफलोपकाराभावादग्दिशावत्तदनपयोगाद् वा अवोचाम च
___ "'जं पुण तं इहभवियं तं. किरियारूवमेव णायव्वं । अहवा भवो ण मोक्खो णो तम्मि भवे हिअं अहवा ॥१॥"
एवं च स्वाभाविकात्मलक्षणत्वादप्यनन्तज्ञानवदनन्तचारित्रं सिद्धानां निर्बाधमेव, क्षायोपशमिकतपःप्रभृतिलक्षणानां | तदाऽननुवर्तिष्णुत्वेऽपि क्षायिकस्य तस्यानुवर्तिष्णुत्वात् ।
यत्तु प्रज्ञप्तौ चारित्रात्मनः सर्वस्तोकत्वमुक्तम् , तत्र चारित्रं क्रियारूपमेव विवक्षितम् , अन्यथा कोटिसहस्रपृथ| क्त्वसंख्योपादानं कथम् , भावचारित्रस्यान्येष्वपि संभवात् ?; "जैस्स चरित्ताया तस्य जोगाया णियमा" इति वाचनान्तरे चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षावश्यकत्वाच्च । ननु यदि सिद्धानां चारित्रमिष्यते, तदा ध्यानमप्येष्टव्यम् , समुच्छिन्नक्रियानिवृत्तिरूपशुक्लभेदस्य मुक्तावनुवृत्तेः सुवचत्वात् , विद्यमानकरणनिरोधपर्यन्तत्वाद् ध्यानव्यवहारस्य तत्पर्यन्त एव ध्यानसद्भावश्चेत् , तर्हि चारित्रसद्भावोऽपि तत्पर्यन्त एवास्तु, तत्पर्यन्तमेव चारित्रव्यवहारादिति चेत् । न, चारित्रावस्थाविशेषरूपस्य ध्यानस्य तदाऽभावेऽपि चारित्रस्यानपायात् । न हि इमामत्वादिस्वावस्थाऽभावेऽपि 'घटो नास्ति' इति वक्तुं शक्यते । 'स्वभावसमवस्थानरूपं ध्यानमपि मुक्तावक्षतम्' इत्यपर इति । अधिकं परीक्षायाम् ।
इदं तु ध्येयम्- सिद्धानां चारित्राभावमतेऽपि प्रकृते नानुपपत्तिः, ज्ञानयोगाधिकारात् , ज्ञाननयप्राधान्येन ज्ञान१ यत् पुनस्तदिहभविकं तत् क्रियारूपमेव ज्ञातव्यम् । अथवा भवो न मोक्षो नो तस्मिन् भवे हितमथवा ॥१॥ २ यस्य चारित्रात्मा तस्य योगात्मा नियमात् ।
॥३४५||
870T
अब
Jain Education Internal
For Private & Personel Use Only
"www.jainelibrary.org