SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ नाशसंभवे तत्सहभूतस्य प्रतिज्ञाविषयीकृतकालनाशस्यान्यथासिद्धत्वेन तन्नाशकत्वायोगात् । अन्यथा सम्यक्त्वप्रतिज्ञाविषयीभूतकालनाशात् परभवे सम्यक्त्वस्याप्यनुवृत्तिर्न स्यात् । सम्यक्त्वाभिव्यञ्जकस्याचारविशेषस्यैवासावसति प्रतिबन्धे काल: प्रलिज्ञायत इति चेत् । तर्हि चारित्राभिव्यञ्जकस्थाप्याचारविशेषस्यैव कालः प्रतिज्ञायत इति तुल्यम् । देवादिभवे भवस्वाभाव्यात् तत्सामग्रीविघटनाच्च न तदनुवृत्तिः, मोक्षे तु क्षायिकत्वेन तत्सामग्रीविघटनायोगादेव तदनुवृत्तिरिति विशेष इति । न च कर्मक्षपणफलाभावाद् मुक्तौ चारित्राभाव इति युक्तम् , एवं सति ज्ञानस्याप्यभावप्रसङ्गात् ; व्यवहारतो घटमुत्पाद्य स्थितस्य दण्डस्येव निश्चयतस्तु हेतु-फलभावापन्नपूर्वापरक्षणश्रेणीभूतस्य तथातथापरिणतस्वभावसमवस्थानफलोपरतस्य वा न निष्फलत्वमिति समाशनस्याप्युभयत्र तुल्यत्वात् । सादिसान्तत्वं चैतन्मते नास्त्येव दानादिलब्धिचारित्राणाम् । उक्तं च विशेषावश्यकवृत्तावपि- "अन्ये तु दानादिलब्धिपञ्चकं चारित्रं च सिद्धस्यापीच्छन्ति, तदावरणस्य तत्राप्यभावात् , आवरणाभावेऽपि च तदसत्त्वे क्षीणमोहादिष्यपि तदसत्त्वप्रसङ्गात् । ततस्तन्मतेन चारित्रादीनां सिद्ध्यवस्थायामपि सद्भावेनापर्यवसितत्वादे कस्मिन् द्वितीयभङ्ग एवं क्षायिको भावः, न शेषेषु त्रिपु" इति । न चैवं ग्रन्थकृतस्तदा चारित्रनिवृत्तिसमर्थनमनतिमयोजनमिति शङ्कनीयम् , क्वचिदभिहितायाश्चारित्रस्य निवृत्ते नादिसाधारण्याः परमनिवृत्तिप्रत्ययायाः कर्मापनयनस्वभावप्रत्ययत्वेनैव वैलक्षण्यापपादनस्य प्रयोजनत्वात् । अत एव चेदृशज्ञानादिनिवृत्यभावाद् नोचारित्रित्वनोअचारित्रित्ववद् नोज्ञानिव-नोअज्ञानित्वादिकं तत्र न व्यवहियते, कर्मापगमनस्वभावेन चारित्रदेशाभाववत् प्रकाशादिखभावेन ज्ञानादिदेशाभावायोगात । न च ज्ञानस्यापि कर्मापनयनस्वभावत्वेन नित्तिरस्त्येवेति वाच्यम् । प्रकाशानाश्रवव्या BOSSESSMISSIO 1 DEVENINETTETICTECTET । N Jain Education Internal For Private & Personel Use Only PRAPTww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy