________________
SHR
शास्त्रवातासमुच्चयः। ॥३४४॥
सटीका। स्तबकः। ॥९॥
e
sues
'जं सेलेसिगयाण वि लद्वी वीरिअं तो समहिआओ । उवओग-दविअ-दसण सव्वजिआणं तो अहिा ॥३॥" इति ।
तस्मात् सिद्धानां चारित्रं कथं सुश्रद्धानम् ? इति चेत् ।
__ अत्र वदन्ति- अन्तरशुभयोगनिवृत्तिरूपं वीर्यमेव चारित्रम् , बहिष्प्रवृत्तिस्तु तदभिव्यञ्जिका । मूलगुणविषयसद्यापाररूपस्थैर्यसमये च तत्पतिपक्षनिवृत्तिरूपं स्थैर्यमव्याहतमेव । तच्चोत्कृष्यमाणं शैलेश्या परमनिवृत्तिरूपं भवत् स्थैर्यपरिणामेन मुक्तावनुवर्तते । न च बाह्यालम्बनगुप्तिरूपतया तस्य कथं केवलात्मस्वभावसाम्राज्यरूपायां मुक्तावनुवृत्तिः ? इति वाच्यम् । अग्दिशायां समिति-गुप्त्युभयरूपस्यापि योगनिरोध-गुप्त्येकरूपतयोत्कर्षवच्छैलेशीचरमसमये स्थिरात्ममात्रपरिणामरूपतयो. स्कर्षसंभवात् । अत एव स्वभावसमवस्थानं सिद्धानां चारित्रमित्यपि निरवद्यम् । न च वीर्याभावात् सिद्धानां चारित्राभावः, तदसिद्धेः, अनन्त ज्ञान दर्शन-वीर्य-चारित्र-सुखस्वभावत्वात् तेषाम् । “'सिद्धा णं अवीरिआ" इति मूत्रं तु सकरणवीर्याभावाभिप्रायादेव व्याख्येयम् । खरूपसत्करणस्याप्यभावे न तत्र शैलेशीवद् भजना, मूलसूत्रभनयभावात् , विचित्रत्वाच्च सूत्रगतेः । न च क्षायिकभावस्य नाशो युक्तः, क्षायिकसामान्य एवं नाशापतियोगित्वनियमात् । अत एवं नास्य शरीरनाशकनाश्यत्वम् , शरीरबलचयो-पचयभावेऽप्यान्तरवीर्यरूपचारित्रचयो-पचयाभावात् , तस्य तन्नाशनियतनाशप्रतियोगित्वाभावात् , फलविशेषौपयिकोत्कर्षस्य शरीराप्रयुक्तत्वात् , अन्यथाऽतिप्रसङ्गात् । न च चारित्रस्य प्रतिज्ञाविषयीकृतकालनाशनाश्यत्वात् कथं यावज्जीवतावधिकमतिज्ञाविषयस्य तस्य मुक्तावनुवृत्तिः इति शङ्कनीयम् । परभवानुबन्ध्यविरतिपरिणामादेव चारित्र.
१ यत् शैलेशीगतानामपि लब्धिवार्य ततः समधिकाः । उपयोग द्रव्य-दर्शनानि सर्वजीवानां ततोऽधिकाः ॥ ३॥ २ सिद्धा अवीर्याः ।
॥३४४॥
Jain Educational
For Private & Personel Use Only
www.jainelibrary.org