________________
शास्त्रवात
सटीकः। स्तवकः।
९॥
समुच्चयः। ॥३४३॥
"जम्हा विगच्छमाणं विगयं, उप्पज्जमाणमुप्पण्णं । तो परभवाइसमए में क्खा-दाणाण ण विरोहो ॥१॥" इति ।
अथाचारित्रस्य सतः सिद्धस्य चारित्रावरणकर्मणः पुनर्बन्धप्रसङ्ग इति चेत् । न, अविरतिप्रत्ययत्वात् तस्य, योगादि- सामग्रीसव्यपेक्षत्वाच्च । न च चारित्राभावं एवाविरतिसिद्धानामविरतत्वव्यपदेशप्रसङ्ग इति वाच्यम्, निराजनकविरतिपरिणामवदविरतिपरिणामस्य विचित्रकर्मबन्धजनकस्य स्वतन्त्रत्वात् , तस्य विरतिप गभावास्कन्दितत्वेऽपि तथाविधविरतिध्वंसानास्कन्दितत्वात् । अत एव 'सिद्धो नो चरित्री नो अचरित्री' इत्यागमः संगच्छते, चारित्राभावाद् 'नोचारित्री' इति, अविरत्यभावाच 'नो अचारित्री' इत्युक्तरुपपत्तेः, 'अचारित्री' इत्यत्र नत्रो विरुद्धार्थत्वात् । आ एव भव्यत्वाभावभव्यत्वविरुद्धाभव्यत्वाभावाभ्यां नोभव्यत्व-नोअभव्यत्वमपि तस्य तत्र तत्रोक्तम् । यदि च चारित्रावस्थाभावादेव नोचारित्रत्व-नोअचारित्रत्वं सिद्धस्योच्यते, तदा ज्ञानावस्थाभावाद् नोज्ञानित्वनोअज्ञानित्वमपि तस्य प्रतिपाद्यमानं न विरुध्येत ।
अपिच, अनार्ष सिद्धानां चारित्रकल्पनम् , "इहभविए भंते ! चरित्ते, परभविए चरित्ते, तदुभयभविए चरित्ते । गोयमा! इहभविए चरित्ते, णो परभविए चरित्ते, णो तदुभयभविए चरिते" इति प्रश्न-निर्वचनप्रबन्धेन चारित्रपरिणाममादायव प्रेत्य देवलोकेषु मुक्तौ वा नोत्पाद इत्यभिप्रायेण भगवता चारित्रस्यापारभविकत्वोपदेशात् । न च चारित्रस्य जीवलक्षण.
यस्माद् विगच्छद् विगत्तम् , उत्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षा-5ऽदानयोर्न विरोधः ॥ १॥ २ सप्तम्यन्तम् । ३ तस्य-सिद्धस्य ।
"सिद्धे नो भग्वे, नो अभवे" इत्यादिना प्रवचने । ५ इहभविकं भगवन् ! चारित्रम्, परभविकं चारित्रम् , तदुभयभविक चारित्रम् ! । गौतम ! इहभविक चारित्रम् , नो परभविक चारित्रम् , नो तदुभयभाविक चारित्रम् ।
A
||३४३॥
Jain Educhlar
g
a
For Private & Personel Use Only
www.jainelibrary.org