________________
परिणामस्य निवृत्त्युपगमे चारित्रस्य सामान्यतः सादिसान्तत्वप्रतिपादकवचनेषु चारित्रपदस्य परमयथाख्यातातिरिक्तचारित्रपरत्वस्यान्याय्यत्वाच्चेति दिग् ।
नन्वेवं चारित्रं क्रियारूप पर्यवसन्नम् , श्रूयते चाक्रियायाः सिद्धिगमनपर्यवसानफलत्वम् । तथा चापम्- “सा णं भंते ! अकिरिया किंफला ? । गोयमा ! सिद्धिगमणपज्जवसाणफला पन्नत्ता" इति कथं ने विरोधः १ इति चेत् । न, अन्तक्रिपाया एवैजनादिव्यापाराभावेनाक्रियात्वेन, चरमकर्मत्वेन च "ज्ञान-क्रियाभ्यां मोक्षः" इत्यादौ क्रियात्वेनोक्तेरविरोधात् ।। अथ सिद्धिगमनसमये चारित्रनाशोपगमे चारित्रस्य मोक्षहेतुत्वं न घटेत, कार्यकालेऽसता कार्यस्योत्पादयितुमशक्यत्वात् , कार्यानुकृतान्वय-व्यतिरेकित्वाभावात् । न च कार्याव्यवहितपूर्वत्तित्वमेव कारणत्वम् , न तु तत्र कार्यकालवृत्तित्वमपि निविशते, मानाभावात् , गौरवात , प्रागभावादीनामकारणत्वप्रसङ्गाच्चेति न दोष इति वाच्यम् । तथापि निश्चयनयानुपस्कारात् , तेन कार्यकालसंबद्धस्यैव हेतोर्जनकत्वाभ्युपगमात् । इति चेत् । न, परिशुद्धनिश्चयनयेन शैलेशीचरमसमय एव मोक्षोत्पत्यभ्युपगमात् , तदा चारित्रस्यानपायात् : 'इह बोदिं त्यक्त्वा तत्र गत्वा सिध्यति' इत्यत्र निश्चयेन बोदित्यागसमये, व्यवहारेण च तत्र गतिसमये मोक्षोत्पादस्याभ्युपगमात् । न च तदा चारित्रस्य विगच्छचाद् विगतत्वेनासत्वात् कार्योत्पत्तिविरोधः, तदा मोक्षस्याप्युत्पद्यमानत्वेनोत्पन्नत्वादविरोधात् , एकदा चारित्रनाश-मोक्षोत्पादयोः परभवप्रथमसमये प्राग्देहपरिशाटनो-त्तरदेहसंघातनयोरिवोपपत्तेः, तदागमः१ सा भगवन् ! अक्रिया किंफला गोरुम ! सिद्विगमनपर्यवसानफला प्रज्ञप्ता । २ स.ग.प.य. 'तद्विरो'। ३ इतः 'जनकत्वाभ्युपगमात्' इत्यन्तः पूर्वपक्षः ।।
मनावर
Join Education
on
For Private
Personal Use Only