________________
शाखवार्तासमुच्चयः। ॥३४२॥
सटीकः। स्तबकः। ॥९॥
सिद्धत्तणेण य पुणो उप्पण्णी एस अत्थपज्जाओ। केवलभावं तु पडुच केवलं दाइ सुते ॥२॥"
अथ चरण-दानादिलब्धीनां विकारिणीनामेव तदानीप्नुपक्षयः, अविकारिणीनां तु सुतरा संभवः, विकारिगुणो. पक्षयेऽविकारिगुणप्रादुर्भावनियमादिति चेत् । किमिदं विकारित्वं- शरीराधपेक्षया प्रवर्तमानत्वं वा, सनियतापेक्षोत्पत्तिकत्वं वा, फलावच्छिन्नत्वं वा । नाद्यः, केवलज्ञानादेरपि तथाभावप्रसङ्गात् । न द्वितीयः, तन्नाशनियतनाशपतियोगित्वस्यैवेत्थं प्रसङ्गात । नापि तृतीयः, फलानवच्छिन्नतदुत्पत्तौ मानाभावात् , चारित्रस्य फलावच्छिन्नत्वनियमात् । अथोत्तरफलानवच्छिन्नत्वमविकारित्वम् , तच्चोत्पत्त्युत्तरसमयावच्छेदेन फलाभाववचम् , तेन नोत्तरफलसिद्ध्य-सिद्धिभ्यां व्याघातः । मानं च चारित्रस्य तथात्वे रवत्रयसाम्राज्यस्य मोक्षसामग्रीत्वोक्त्यन्यथानुपपत्तिरेवः केवलोत्पत्तिसमये काष्ठापाप्तयोनि-दर्शनयोरुत्पादेऽपि चारित्रस्य तथाभूतस्यानुत्पादादेव मोक्षविलम्बात्; यथा खत्वचारोऽपि चौरसंसर्गितया 'चौरः' इति व्यपदिश्यते तथा तत्चतश्चारित्रापतिपन्थित्वेऽपि तत्पतिपन्थिमोहसाहचर्याद् योगानां तथा व्यपदिश्यमानानां प्रतिबन्धकानामपगमादुत्पन्नेन परमयथाख्यातचारित्रेण सामग्रीसंपच्या मोक्षोत्पत्तेर्यथाख्यातत्वनैव तस्य पञ्चस्वन्तर्भावाच्च न विभागव्याघात इति चेत् । न, तत्वतो योगाना चारित्रापतिपन्थित्वेन तदपगमे परमयथाख्यातचारित्रानुत्पत्तेः, उत्पत्तौ वा यथाख्यातात्तस्य गतिज्ञानादेः केवलज्ञानस्येव विजातीयत्वेन विभागव्याघातात् । ज्ञान-क्रिययोर्नयभेदादन्तक्रियाद्वारा शैलेश्यामवस्थाभेदान् वा मोक्षजनकत्वोपपत्तेः, सर्वसंवरस्याप्यर्थसिद्धत्वात् , तदर्थ हेतुभेदकल्पनानौचित्यात , क्षायिकस्यापि सतः शैलेश्यर्वाचीनचारित्र
+ सिद्धत्वेन च पुनरुत्पन्न एषोऽर्थपर्यायः । केवलभावं तु प्रतीत्य केवलं दर्शितं सूत्रे ॥ २ ॥ २ सम्मतिप्रकरणे गाथा ०९, १० ॥
॥३४२॥
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org